________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 208 मात् / यदि च स्नातकचारित्रस्य द्रव्याहिंसा दोषः स्यात् तदा निर्ग्रन्थचारित्रस्यापि दोषः स्यादेव, निर्ग्रन्थ-स्नातकयोरेकसंयमस्थानाभ्युपगमात् / “णिगंथसिणापाणं तुल्लं इक्कं च संजमहाणं" इति पञ्चनिर्ग्रन्थीवचनादिति द्रष्टव्यम् // 60 // हिंसाचतुर्भङ्गन्यनुसारेणैव द्रव्याहिंसया भगवको दोषाभावमाहणोदवा णोभाषा जह तह हिंसाण दव्वमित्तेणं / तेणं तीए 'दोसं जिणस्स को भासए सण्णी // 61 // व्याख्या-'णोदव्व 'त्ति / नोद्रव्याद् नोभावाद् यथा न हिंसा, तथा द्रव्यमात्रेणापि हिंसा तत्त्वतो न हिंसा / तेन तया द्रव्यहिंसया दोषं जिनस्य कः संज्ञी भाषेत-अपि तु न कोऽपीत्यर्थः / इदमुक्तं भवति-हिंसामधिकृत्यद्रव्यभावाभ्यां चतुर्भंगी तावदियं श्रावकमतिक्रमणसूत्रवृत्तावुक्ताः-१ द्रव्यतो भावतश्च हिंसा'हन्मि' इति परिणतस्य व्याधादेमंगवधे / 2 द्रव्यतो न भावतः-ईर्यासमितस्य साधोः सत्त्ववधे / यदागम: “२वजेमित्ति परिणओ संपत्तीए विमुच्चई वेरा / अवहतो वि ण मुच्चइ किलिट्ठभावा इवायस्य // " त्ति / 3 भावतोनद्रव्यतः-गारमर्दकस्य कीटबुद्धयाऽङ्गारमर्दने, मन्द्रप्रकाशे रज्जुमहिबुद्धया नतो वा / 4 न द्रव्यतो न भावतः-मनोवाक्कायशुद्धस्य साधोरिति / . अत्र परश्चतुर्थभङ्गस्वामिनं सयोगिकेवलिनमेवाह / यत्तु चूर्णिकारेण “चउत्यो सुण्णो 'त्ति भणितम्, तत्र स्वामिनमधिकृत्य, केवलिनस्तत्स्वामिनो विद्यमानत्वात् , तस्य सर्वोत्कृष्टचारित्रान्यथानुपपत्त्या मनोवाकायैः शुद्धत्वाद्, अन्यथा स्नातकः केवली न स्यात्, किन्तु हिंसास्वरूपमधिकृत्यैवोक्तम, तच्चैवम्-यदि हिंसा तर्हि न द्रव्यतो न भावत इति वक्तुमप्यशक्यम्, द्रव्यभावयोरन्यारत्वेनावश्यम्भावात् , तेन चतुर्थों भङ्गः शून्यो भणितः, विरोधाद् / न च शैलेश्यवस्थायां केवली स्वामी भविष्यतीति शङ्कनीयम, तस्य सिद्धस्येव योगाभावेन मनोबाकायैः शुद्धत्वाभावाद्, नद्यविद्यमाने वस्त्रे वस्त्रेण शुद्ध' इति व्यवहियत इत्याद्यसौ समर्थयामास / तच्चायुक्तम्, हिंसाव्यवहाराभावमधिकृत्यैव चतुर्थभङ्गशून्यत्वा१ नोद्रव्याद नोभावाद वथा, तथा हिंसा न द्रव्यमात्रेण / तेन तया दोषं जिनस्य को भाषते संज्ञी ? // 61 // 2 वर्जयामीति परिणत: संपत्त्या विमुच्यते वैरात् / अनन्नपि न मुच्यते क्लिष्टभावादिवात्मनः // For Private and Personal Use Only