________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir धुरादिरसास्वादः, परं यत्र चिकीर्षितकार्यस्यानुकुलकारणान्यपि व्यवहारतः साबंद्यानि भवन्ति तद्विषया जिनानुज्ञा क्रियाकालेऽप्यादेशमुखेन न स्याद्, एवं व्यवहारतो भाषायाः सावधवप्रसक्तेः; किं त्विष्टफलोपदर्शनेन कल्प्यत्वाभिव्यनितोपदेशमुखेनैवावसातव्या / सा चानुज्ञा निश्चयतो निरवथैव, संसारमतनुकरणपूर्वकसानुबन्धिपुण्यप्रकृतिबन्धहेतुखात् / एतेन कुसुमादिभिर्जिनेन्द्रपूजामुपदिशता कुसुमादिजीवविराधनाप्युपदिष्टैव, पूजाविनाभावित्वेन ज्ञात्वैव पूजायामुपदिष्टलादिति वचनमपास्तम्, कुसुमादिजीवविराधनायाः पूजायाः कर्तुष्टुवाप्रत्यक्षत्वेन पूजाविषयकपरिणामव्यवहाराहेतुत्वेन कल्पितकुसुमादीनामिव द्रव्यपूजासामग्र्यनन्तर्भूतखात्, उपदेशमन्तरेणापि जायमानखात् , पूजां कुर्वता त्यक्तुमशक्यखाच, अन्यथा कुसुमादीनामिव तस्या अपि भूयस्त्वमेव विशिष्टपूजाङ्ग वाच्यम्, न च कुमुमादिभूयस्त्वे तद्भूयस्त्वमावश्यकम्, कुसुमादीनां सचित्ताचित्ततया द्वैविध्यव्यवस्थानात् / तस्मात्तीर्थकृतामाज्ञोपदेशः कर्मक्षयनिमित्तं प्रत्युपेक्षणेर्यासमित्यादिषु संयता यतनया प्रवर्तेरन् नान्यथा, संसारद्धिहेतुत्वादित्येवंविधिनिषेपमुखाभ्यामेवावसातव्यो न पुनस्त्वमित्थं कुरु इत्यादिसाक्षादादेशमुखेनापि / न च यतनया नद्युत्तारवत्तया द्रव्यपूजापि संयतानां भवखिति शङ्कनीयम्, साधनां प्रसस्थावरजीवरक्षार्थयतनाधिकाराद्, नद्युत्तारे 1 एगं पायं जले किच्चा' इत्यादिविधिना तन्निर्वाहाद्, द्रव्यस्तवे च त्रसजीवरक्षार्थयतनावतां श्राद्धानामेगापिकारात्, सर्वारम्भपरिजिहीर्षापूर्वकपृथिव्यादियतनापरिणामे च तेषामपि चारित्र एवाधिकार इति तत्कारापणं च साधूनामुपदेशमुखेन युक्तम्, निश्चयतोऽनुशाविषयवाद्, न खादेशमुखेन: पृथिवीदलादीनां तत्कारणानां व्यवहारतः सावधखात्, सोऽप्युपदेशो जिनपूजायतनाविषय एवेति सर्वत्र यतनायामेव भगवदाज्ञा, नतु कचिद् द्रव्यहिंसायामपीति॥ तत्र ब्रूमः-अनुज्ञा तावद्भगवतो विधिवचनरूपा नद्युत्ताराधविनाभाविन्यां जलजीवमाणवियोगरूपायां जलजीवविराधनायां न कथञ्चिदेव, तस्या उदासीनखात् / तदनुकूलव्यापाररूपायां तु तस्यां नधुतारादिव्यापाररूपायां साऽवर्जनीयैव, उभयस्वभावस्यानैकान्तिकस्य निमित्तकारणस्य बुद्धिभेदेन पृथक्क मशक्यत्वाद्, यत एव च यतनाविशिष्टस्य नधुत्तारस्येष्टफलहेतुत्वं भणितम् / अत एव नैमित्तिकविधिरूपाया भगवदाज्ञाया बहुलाभाल्पव्ययद्रव्यहिंसायां व्यवहारतः पर्यवसानमुत्सर्गतः, प्रतिषिद्ध हि केनचिन्निमित्तेनैव विधीयत 1 एकं पादं जले छत्त्वा // For Private and Personal Use Only