________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir तञ्च त्रसजीवरक्षार्थमिति / न च केवलिना जीवघातादिकं साक्षादनुज्ञातमिति न श्रूमः, किन्तु विहारादिकमनुजानता तदविनाभावेन जायमानमनुज्ञातमित्यस्यापि वचनस्यावकाशः, एवं सति गजमुकुमालश्मशानकायोत्सर्गमनुजानतः श्रीनेमिनायस्य तदविनाभावितदीयशिरःप्रज्वालनस्याप्यनुज्ञापत्तेः / न च नद्युत्तारे जलजीवविराधना यतनया कर्त्तव्येति जिनोपदेशो भविष्यतीत्यपि सम्भावनीयम, यतनाविराधनयोः परस्परं विरोधाद्, यतना हि जीवरक्षाहेतुरयतना च जीवघातहेतुरिति / तस्माज्जीवविराधना नियमादयतनाजन्यैव, अयतना चान्ततो जीवघातवदनाभोगजन्याशक्यपरिहारेणैव,जीवरक्षा च यतनाजन्यैवेत्यनादिसिद्धो नियमो मन्तव्याअत एव छमस्थसंयतानामुपशान्तवीतरागपर्यन्तानां यतनया प्रवर्त्तमानानामपि या विराधना सा नियमादनाभोगवशेनायतनाजन्यैव,परमपमत्तसंयतानां नातिचारहेतुरपि,आशयस्यशुद्धत्वात् / एतच्च सम्भावनयाप्यात्मकृतत्वेनाज्ञातायां छअस्थसाक्षाकारगम्यजीवविराधनायामवसातव्यम्, ज्ञातायां च प्रायश्चित्तपतिपित्सोरेव, अन्यथा तु निःशूकतया संयमापगम प्रतीत एव। न चापमत्तानामयतना न भविष्यतीति शङ्कनीयम्, अनाभोगजन्यायतनायाश्छद्मस्थमात्रस्य सत्त्वेनाप्रमत्तताया अनावाधकत्वात, तेन संयतानां सर्वत्राभ्यनाभोगजन्याशक्यपरिहारेण जायमाने जीवघातमृषाभाषणाद्यशे जिनोपदेशो न भवत्येव, तथाभूताया अपि विराधनाया अयतनाजन्यत्वेन निषिद्धत्वाद्, अत एव संयतानां द्रव्यतोऽपि हिंसा कर्मवन्धकारणम्, असत्यपि कृतप्रत्याख्यानभङ्गेनालोचनाविषयः। यदागमः-१ से अपाणाइवाए चउबिहे पण्णत्ते,तं०-दवओ खित्तओ कालओ भावओ” इत्यादि प्रत्यारव्यानं च सर्वविरतिसिद्धयर्थमेव, तस्या अपि द्रव्यत आश्रवरूपखात् , सूक्ष्मपृथिव्यादीनामिवाविरतिप्रत्ययकर्मबन्धहेतुत्वात् , भावहिंसायाः कारणबाच्च; एतेन यत्र कापि धार्मिकानुष्ठाने सम्भावनयाप्यवयं भवति तदनुष्ठानविषयको जिनोपदेशो न भवति, तावन्मात्रस्याप्याश्रवस्योपदेशविषयत्वापत्त्या कृतसर्वसावधपत्याख्यानवतः प्रत्याख्यानभङ्गेन 'केवली यथा वादी तथा कर्ता नभवेद्' इत्येवं प्ररूपणात्मकं पाशचन्द्रमतमप्युपेक्षितं द्रष्टव्यम्, जैनप्रवचने प्रागुक्तभकारेण तदंशे जिनोपदेशापत्तेरेवानङ्गीकारात्; तस्मादयं भावा-यद्वस्तुजातं चिकीर्षितकार्यस्य प्रतिकूलमननुकूलं वा भवेत्तदविनाभावसम्बन्धेन जायमानमप्यनुकूलकारणवदुपदेशविषयो न भवति / यथा नधुत्ताराद्युपदेशे जीवघातो यथा वा क्षुद्वेदनाद्युपशमनार्याहारविधौ तिक्तम १स प्राणातिपातश्चतुर्विधः प्राप्तः, तद्यथा-द्रव्यतः श्रेत्रातः कालतो भाषत। For Private and Personal Use Only