________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 197 दप्रतिषेवणेऽप्यनादिसिद्धकल्प्यस्वादिलक्षणवस्तुस्वरूपाववोधको जिनोपदेशो :भवति / तथा साध्च्या उपसर्गकर्तारमधिकृत्य // पंचिंदियववरोषणा ‘कप्पि अ" ति निशीथचूर्णावुक्तं म पुनः स हन्तव्य इति विधिमुखेन जिनोपदेशो भवति '२सव्वे पाणा सव्वे भूआ सव्वे जीवा सव्वे सत्ता ण हन्तवा" इत्यायाम विरोधप्रसङ्गात् / यच्च दशाश्रुतस्कन्धचूौँ-" . 2 अवश्णचाई पडिहाणेज हि भणितं तदाचार्यशिष्याणां परवादनिराकरणे सामर्थ्य दर्शितम् / यथा-" "मि च्छदिठीसु पडिहएमु सम्मत्तं थिर होइ” त्ति श्रीसूत्रकृदाचूणौँ भणितम् / अत एव " "साहूणं चेइआण य' इत्यादौ सर्वबलेनेति स्वप्राणव्यपरोपणं यावदित्येक भः णितम्, न पुनर्मिनप्रवचनाहितकर्ता 'हन्तव्य' इति, जैनानां तथाभाषाय वक्तुमप्यनुचितत्वात् / यद्यपि सर्वबलेन निवारणे पञ्चेन्द्रियव्यापादन कादाचि कं भवत्यपि, तथापि ‘स व्यापादनीयो व्यापाद्यतां च' इत्यादिरूपेण मनो. व्यापारवानपि केवलीन भवति, तथाभूतस्यापि मनोव्यापारस्य सावद्यत्वेन प्रत्या ख्यातत्वाद् / न चापवादिकस्तथाव्यापारः सावधो न भविष्यतीति शनीयम्, यतोऽपवादप्रतिषेवणं च संयतेष्वपि प्रमत्तस्यैव भवति, कथं तहि सर्वोत्कृष्टनियताप्रमत्तस्य केवलिनोऽपीति ? परं पश्चेन्द्रियव्यापादनभयेन यदि सति सामध्ये प्रव. चनाहितं न निवारयति, तर्हि संसारद्धिदुर्लभबोधिता चेत्यादि श्रीकालिकाचार्यकथादौ भणितम् / अहितनिवारणे च क्रियमाणे कदाचित्पश्चेन्द्रियव्यापत्तौ पायश्चित्तप्रतिप्रत्याशयस्य शुद्धत्वाजिनाज्ञाऽऽराधकः सुलभबोधिश्चेत्यादिरूपेण वस्तुस्वरूपावबोधको जिनोपदेशो भवतीति तात्पर्यम् / एवं जिनोपदेशेन वस्तुस्वरूपमवगम्य स्वत एवं यथौचित्येन प्रवृत्तिनिवृत्तिभ्यां जिनाज्ञाराधको भवतीति जिनोपदेशस्य कल्प्याकल्प्यतावबोध एव चरितार्थत्वाजलजीवविराधनानुज्ञा केवलिनः कलङ्क एव / न च नद्युत्तारस्य कारणत्वेन जलजीवविराधनाऽऽप्यापवादिकीति तत्र जिनोपदेशो भविष्यतीति शङ्कनीयम्, अचित्तजलनधुत्तारस्य भावापत्त्या तस्या नद्युत्तारे कारणत्वाभावात् / तस्मान्नद्युत्तारस्य कारणं न जलजीवविराधना, किन्तु पादादिक्रियैवेति / एतेन 'जलं वस्त्रगलितमेव पेयम् नागलितम्' इत्युपदिशता केवलिना जले जीवविराधना सचित्तजलपान चोपदिष्टं भविष्यतीति शङ्काऽपि परास्ता / यतः" सविशेषणे” इत्यादिना न्यायेन तत्र जलगलनमेवोपदिष्टम्, 1. पञ्चेन्द्रिय व्यपरोपणा कल्प्या इति // 2. सर्वे प्राणाः सर्वे भूताः सर्वे जीवाः सर्वे सस्वा न हन्तव्याः // 3. अवर्षचादिन प्रतिहस्यात् / 4. मिध्यारक्षित प्रतिहतेषु सम्यक्त्वं स्थिरं भवति।५..साधूनां चैत्यानां च / For Private and Personal Use Only