________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir देवोत्सूत्रभाषणम् , नच्च नानन्तसंसारकारणम् , उन्मापतिताना तु सर्वेषामाभोगवतामनाभोगवतां वा तदनन्तसंसारकारणमेव, तीर्थोच्छेदाभिप्रायमूलत्वादिति, साध्वाचारोच्छेदाभिप्रायस्य यथाछन्देऽप्यविशेषात् / अथ--" उम्मग्गमग्गसंपहिआण साहूण गोअमातू] (1) / - संसारो अ अणंतो होइ य समग्मणासीणं // " इतिगच्छाचारप्रकीर्णकवचनबलादुन्मार्गपतितानां निहवानामनन्त एव संसारो ज्ञायते न तु यथाछन्दानामपि, अपरमार्गाश्रयणाभावादिति चेद् / उन्मार्गपतितो निह्नव एवेति कथमुद्देश्यनिर्णयः ? साधुपदेन शाक्यादिव्यवच्छेदेऽपि यथाछन्दादिव्यवच्छेदस्य कर्तुमशक्यत्वात् , गुणभेदादिनेव क्रियादिविपर्यासमूलकदालम्बनप्ररूपणयाऽप्युन्मार्गभबनाविशेषाद् / न हि 'मार्गपतित' इत्येतावता शिष्टाचारनाशको यथाछन्दादिरपि नोन्मार्गगामी। __. अथ यथाछन्दादीनामप्युन्मार्गगामित्वमिष्यते एव, न त्वन्तसंसारनियमः, तन्नियमाभिधायकवचने उन्मार्गसंप्रस्थितपदेन तीर्थोच्छेदाभिप्रायवत एव ग्रहणादिति चेद् , / अहो किंचिदपूर्वयुक्तिकौशलम् ! यदुक्तवचनबलात्तीर्थच्छेदाभिप्रायवतां निहवानामनन्तसंसारनियमसिद्धौ पदविशेषतात्पर्यग्रहः, तस्मिंश्च सति तत्सिद्धिरित्यन्योन्याश्रयदोषमापतन्तं न वीक्षसे / संप्रदायादीहशोऽर्थो गृहीत इति न दोष इति चेद् / न, संप्रदायादध्यवसायं प्रतीत्य निलवानामपि संख्यातादिभेदभिन्नस्यैव संसारस्य सिद्धत्वाद् , उन्मार्गसंप्रस्थितानां तीव्राध्यबसायानामेव ग्रहणे बाहुल्याभिप्रायेण व्याख्याने दोषाभावाद् / न चेदेवं तदा 'वयमेव सृष्टिस्थित्यादिकारिणः' इत्यागुत्सूत्रभाषिणोऽनवच्छिन्नमिथ्यात्वसंतानपरमहेतोस्तीर्थोच्छेदाभिप्रायवतो बलभद्रस्य जीवस्याप्यनन्तसंसारोत्पत्तिः प्रसज्येत / न चैतदशास्त्रीयं वचनम् , त्रिषटीयनेमिचरित्रेऽप्येवमुक्तत्वात् / तथाहि उन्मार्गमार्गसंप्रस्थितानां साधूनां......(?) / , संसारश्वानन्तो भवंति स्वमार्गनाशिनाम् // For Private and Personal Use Only