SearchBrowseAboutContactDonate
Page Preview
Page 204
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 'नणु आजोगा इत्थं, विरयाणं हुऊ देसविरयत्तं / णेवं, जं पमिपुन्ना पवित्ती सुत्तयाणा य // 5 // व्याख्या-नणुत्ति / नन्वत्र नद्युत्तारे जलजीवविराधनायामाभोगाद्विरतानां सर्वसंयमवतां देशविरतत्वं भवेत् , निश्चितेऽपि जलजीवघातेऽवस्थितस्य विरतिपरिणामस्याभ्युपगमे तस्य देशविरतिरूपस्यैव पर्यवसानाद्, निश्चितेऽपि जलजीवघाते तज्जीवविषयकविरतिपरिणामस्यानपायेन चारित्राखण्डताभ्युपगमे च सर्वेषामपि सम्यग्दृशां सर्वविरतिप्रतिपत्तौ न किञ्चिद्वाधकमिति देशविरत्युच्छेद एव स्यादिति भावः। नवम्, यद्-यस्मात् कारणाद्विरतानां प्रतिपूर्णा प्रतिपत्तिः-अष्टादशशोलाङ्गसहस्रग्रहणलक्षणा मूत्राज्ञा च तेन न निश्चितायामपि जलजीवविराधनायां नत्तारादौ देशविरतत्वम्, प्रतिपन्नसर्वविरतेः सूत्राज्ञयाऽखण्डनात् / न च प्रतिदिनकर्त्तव्यविचित्रोत्सर्गापवादगहनाष्टादशशीलाङ्गसहस्रपतिपत्तियोग्यतां स्वात्मन्यनिश्चित्यादित एव तत्प्रतिपत्तियुक्तंति तदधस्तनगुणस्थानयोग्यतया देशविरतिप्रतिपत्तिसम्भवान्न तदुच्छेद इति भावः / इदं तु ध्येयम्-निश्चयनयमतेनाष्टादशापि शीलाङ्गसहस्राण्यखङ्ख्येयात्मप्रदेशवत्परस्परनियतान्येवेत्येकस्यापि सुपरिशुद्धस्य शीलाङ्गस्य सत्त्वं शेषसद्भाव एव स्यादिति समुदितैरेव तैःसर्वविरतिसम्भवः। तदुक्तं हरिभद्राचार्यैः 2 एत्थ इमं विण्णेयं, अइदंपज्जं तु बुद्धिमतेहिं / इकपि परिसुद्धं, सीलंग सेससम्भावे // 1 // एको वाऽऽयपएसोऽसंखेज्जपएससंगओ जहओ। एयंपि तहा णेयं सतत्तचाओ इहरहा उ // 2 // जम्हा समग्गमेयंपि सबसावज्जजोगविरईओ . तत्तेणेगसरूवं णाखंडरूवत्तणमुवेइ // 3 // 1 नन्वाभोगादित्थं विरतानां भवेद् देशविरतत्वम् / नैवं, यत्प्रतिपूर्णा प्रतिपत्तिः सूत्राशा च // 19 // 2 अत्रेदं विज्ञेयमैदंपर्य तु बुद्धिमद्भिः / एकमपि सुपरिशुद्धं शीलानं शेषसद्भावे // एको वाऽऽत्मप्रदेशोऽसंख्येयप्रदेशसंगतो यथा च / एतदपि तथा ज्ञेयं स्वतत्त्वत्याग इतथा तु // यस्मात्समग्रमेतदपि सर्वसावद्ययोवेरतितः / तत्तेनैकस्वरूपं नाखण्डरूपत्वामुपैति // For Private and Personal Use Only
SR No.020309
Book TitleDharmpariksha
Original Sutra AuthorN/A
AuthorYashovijay
Publisher
Publication Year
Total Pages276
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy