SearchBrowseAboutContactDonate
Page Preview
Page 203
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 192 यथा तन्दुलमत्स्यादीनाम्, यस्मादनैकान्तिकमेवं बाथनिमित्तम् , तत्सद्भावेऽप्यहिंसकत्वात् , तदभावे च हिंसकलादिति। नन्वेवं तर्हि बाह्यो जीवघातः किं सर्वथैव हिंसा न भवति ? उच्यते-कश्चिद् भवति, कश्चित्तु न। कथम् ? इत्याह-- " 'असुहपरिणामहेऊ जीवाबाहोत्ति तो मयं हिंसा। जस्स उ ण सो णिमित्तं, संतोवि ण तस्स सा हिंसा" // 1 // ततस्तस्माद् यो जीवावाधोऽशुभपरिणामस्य हेतुरथवाऽशुभपरिणामो हेतुर्यस्यासावशुभपरिणामहेतुर्जीवाबाधो जीवघातः स एव हिंसेति मतं तीर्थकरगणधराणाम। यस्य तु जीवाबाधस्य सोऽशुभपरिणामो न निमित्तं स जीवावाधः सन्नपि तस्य साधोर्न हिंसेति / अमुमेवार्थ दृष्टान्तेन द्रढयन्नाह-~ ___" सद्दादओ रइफला. ण वीयमोहस्स भावसुद्धीओ। जह तह जीवाबाहो ण सुद्धमणसो वि हिंसाए // 1 // " यथेह वीतरागद्वषमोहस्य भगवत इष्टाः शब्दरूपादयो भावविशुद्वितो न कदाचिद्रतिफला रतिजनकाः सम्पद्यते, यथा वेह शुद्धात्मनो रूपवत्यामपि मातरि न विषयाभिलाषः संजायते, तथा शुद्धपरिणामस्य यत्नवतः साधोः सत्योपघातोऽपि न हिंसायै सम्पद्यते, ततोऽशुभपरिणामजनकत्वे बाह्य निमित्तमनैकान्तिकमेवेति // " (पृ. 747. गा. 1762-68) यदि चाशक्यपरिहारविराधनाभोगः साधूनां सम्यक्त्वक्षतिकरः स्यात् तदौत्सर्गिकविहारादिक्रियापरित्याग एव स्यात् , तत्रापि योगजन्यविराधनानिश्चयाद्, न च प्रमाणान्तरेण निश्चितेऽपि स्वादर्शनमात्रेणानाभोगः शक्यो वक्तुमित्युक्तमेव, न चेदेवं तदा निरन्तरजीवाकुलभूमि निर्णीयापि रात्रौ तत्रैव स्वैरंगमने जीवाप्रत्यक्षत्वेन तत्र तज्जीवविराधनाऽनाभोगजा वक्तव्या स्यात् / तथाच लोकशास्त्रविरोधः / किंचैवमब्रह्मसेवायामपि केवलिवचसा निश्चीयमानाया अपि त्रसविराधनाया अना भोगपूर्वकत्वे साधोःप्रथममहाव्रतभङ्गो न स्यात् , स्याच प्रकृष्टावधिमतां प्रत्यक्षयोगजन्यविराधनानामिति न किञ्चिदेतत् // 58 // एवं व्यवस्थिते सत्यत्र विश्रान्तस्य परस्याक्षेपं समाधत्ते अशुभपरिणामहेतुर्जीवाषाध इति ततो मतं हिंसा / यस्य पुनः सोऽनिमित्तं सन्नपि न तस्य सा हिंसा // 5 शब्दादयो रतिफला न वीतमोहस्य भावशुद्धितः / था तथा जीवाantasमोति सिंमाये // For Private and Personal Use Only
SR No.020309
Book TitleDharmpariksha
Original Sutra AuthorN/A
AuthorYashovijay
Publisher
Publication Year
Total Pages276
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy