________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir "'ण य घायउत्ति हिंसो णाघायंतीति णिच्छियमहिंसो / ण विरलजीवमहिंसो ण य जीवघणंति तो हिंसो // 1 // अहणतोवि हु हिंसो दुवृत्तणओ मओ अहिमरोब्ध / बाहितो ण वि हिंसो सुद्धत्तणओ जहा विज्जो // 2 // " नहि 'घातकः' इत्येतावता हिंस्रः, नचाननपि निश्चयनयमतेनाहिंस्रः, नापि 'विरलजीवम् ' इत्येतावन्मात्रेणाहिंस्रः, न चापि 'जीवधनम्' इत्येतावता च हिंस्र इति; किं तर्हि ? अभिमरो गनादिघातकः स इव दुष्टाध्यवसायोऽनन्नपि हिंस्रो मतः / बाधमानोऽपि च शुद्धपरिणामो न हिंस्रः, यथा वेद्य इति घ्नन्नप्यहिंस्रोऽध्नन्नपि च हिंस्र उक्तः। स इह कथंभूतो ग्राह्यः ? इत्याह___पंचसमिओ तिगुत्तो नाणी अविहिंसओ ण विवरीओ। होउ व संपत्ती से मा वा जीवोवरोहेणं // 1 // पञ्चभिः समितिभिः समितः तिसृभिश्च गुप्तिभिर्गुप्तो ज्ञानी जीवस्वरूपसद्रक्षाक्रियाभिज्ञः सर्वथा जीवरक्षापरिणामपरिणतस्तत्मयतश्च कथमपि हिंसन्नप्यविहिंसको मतः / एतद्विपरोतलक्षणस्तु नाहिंसकः, किन्तु हिंस्र एवायम्, अशुभपरिणामखाद्, (भावबाह्य)जीवहिंसाया जीवोपरोधेन जीवस्य कीटादेरुपरोधेनोपघातेन सम्पत्तिर्भवतु मा भूद्वा, 'से' तस्य साध्वादेः हिंसकत्वे तस्या अनैकान्तिकत्वादिति // कुतस्तस्या अनैकान्तिकत्वम् ? इत्याह-- " ३असुहो जो परिणामो सा हिंसा सो उ बाहिरणिमित्तं / कोवि अवेक्खेज ण वा जम्हा गंतियं बझं // 1 // " यस्मादिह निश्चयनयतो योऽशुभपरिणामः स एव हिंसेत्याख्यायते / स च बाह्यसत्वातिपातक्रियालक्षणं निमित्तं कोऽप्यपेक्षते, कोऽपि पुनस्तन्निरपेक्षो भवेत् , 1 च घातक इति हिंस्रो नाघातयन्निति निश्चितमहिनः न विरलजीवमहिंस्रो न च जीवघनमिति ततो हिम्नः // अनन्नपि खलु हिंस्रो दुष्टत्वान्मतोऽभिमर इव / बाधमानो नापि हिंस्त्रः शुद्धत्वाद् यथा वैद्यः // 2 पश्चसमितस्त्रिगुप्तो ज्ञानी अविहिंसको न विपरीतः / भवतु वा संपत्तिस्तस्य मा वा जीवोपरोधेन // 3 अशुभो यः परिणामः सा हिंसा स तु बाह्यनिमित्तम् / कोऽपि अपेक्षते न वा यस्मादनैकान्तिकं बाह्यम् // For Private and Personal Use Only