________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir त्यया जिनकल्पिकादीनामसंयतलप्रसक्तेर्वज्रलेपत्वमेव, तस्या योगावश्यंभाक्त्विस्य प्रवचनादेव निश्चयाद् अङ्गीकृतं चैतत्परेणापि / यदुक्तं तेन-“यत्रानुष्ठाने आरम्भस्तजिनैः प्रतिषिद्धमेव, उत जिनोपदिष्टक्रियायामारम्भो न भवत्येव' इति लुम्पकीयपक्षद्वयदूषणार्थं ग्रन्थान्तरे। आद्यपक्षे साधूनां विहारा-हार-नीहार-नधुत्तार-अतिक्रमण-प्रतिलेखनो-पाश्रयप्रमार्जनादिक्रियाणां प्रवचनप्रसिद्धानामारम्भाविनाभाविनीनां प्रतिषेधे सम्पन्ने तवैव गलपादुका। द्वितीयेऽध्यक्षबाधा, नद्युत्तारादिषु षण्णामपि जीवानां विराधनासम्भवात् , ' जत्थ जल तत्थ वणं'-इत्यागम वचनात् प्रतिक्रमणप्रतिलेखनादिषु च वायुजीवादीनामारम्भस्यागमप्रसिद्धलात, एजनादि क्रियायुक्तस्यारम्भाधवश्यंभावात् / यदागमः-" २जाव णं एस जीवे एअइ वेयइ चलइ फंदइ' इत्यादि यावदारंभे वट्टइ” इत्यादि। किंच-अपवादे आभोगपूर्विकायामपि जोवविराधनायां सम्यक्त्वनाशादिदूषणं यत् त्वया नोच्यते, तत्र किं म्रियमाणानां जीवानां प्राणत्यागाभावः, सद्गतिर्वा कारण, द्वयमप्यागमबाधितमित्याशयशुद्धखमेव तत्र कारणं वाच्यमित्यशक्यपरिहारजीवविराधनायामप्याशयशुद्धत्वादेव दोषाभावोऽस्तु, किमनाभोगप्रपञ्चेन, अत एव जीवघातेऽपि लोके द्रव्यहिंसाया भावहिंसायां शब्दादीनां रताविवानैकान्तिककारणखात्., जीवरक्षाविषयकप्रयत्नेनैव साधोरन्तस्तत्त्वशुद्धेरदुष्टत्वं विशेषावश्यके उपपादितं नत्वनाभोगेनैव, तथा च तद्ग्रन्थः " एवमहिंसाऽभावो जीवघणति ण य तं जउ भिहियं / सत्थोवहयमजीवं ण य जीवघणंति तो हिंसा // 1 // " नन्वेवं सति लोकस्यातीव पृथिव्यादिजीवघनत्वादहिंसाभावः, संयतैरप्यहिंसाव्रतमित्य निर्वाहयितुमशक्यमिति भावः, तदेतद् न, यतोऽनन्तरमेवाभिहितमस्माभिः-शस्त्रोपहतं पृथिव्यादिकमजीवं भवति / तदजीवत्वे चाकृताकारितादिपरिभोगेन निर्वहत्येव यतीनां संयमः / न च 'जीवघनो लोकः' इत्येतावन्मात्रेशैव हिंसा सम्भवतीति // आह ननु जीवाकुले लोकेऽवश्यमेव जीवघातः सम्भवी, जीवाश्च घ्नन् कथं हिंसको न स्याद् ? इति भावः। 1 यत्र जलं तत्र धनम् / 2 यावदेष जीव एजते वेदयति चलति स्पन्दते इत्यादि यावदारम्मे वर्तते / 1 एवमहिंसाऽभावो जीवघनमिति न च तद् यतोऽमिहितम् / शस्त्रोपहतमजीवं न च जीवघनमिति ततः हिंसा // For Private and Personal Use Only