________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 184 कर्मपन्धस्य कारणम्, अपि तु वधकस्य तीवभावो मन्दभावो ज्ञात भावोऽज्ञातभावो महावीर्यत्वमल्पवीर्यत्वं चेत्येतदपि: तदेवं वध्यवधकयोर्विशेषात् कर्मबन्धविशेष इत्येवं व्यवस्थिते वध्यमेवाश्रित्य सदृशत्वासदृशत्वव्यवहारो न विद्यत इति / तथाऽनयोरेव स्थानयोः प्रवृत्तस्यानाचारं विजानीयादिति // " तथाहि-यज्जीवसाम्यात् कर्मवन्धसदृशत्वमुच्यते, तदयुक्तम्, यतो नहि जीवव्यापत्त्या हिंसोच्यते, तस्य शाश्वतस्वेन.व्यापादयितुमशक्यत्वाद्, अपि विन्द्रियादिव्यापस्या / तथा चोक्तम् पशेन्द्रियाणि त्रिविधं बलं च उच्छ्वासनिःश्वासमथान्यदायुः / पाणा दशैते भगवद्भिरुक्तास्तेषां वियोजीकरणं तु हिंसा // " इत्यादि। अपि च भावसव्यपेक्षस्यैव कर्मबन्धोऽभ्युपेतुं युक्तः / तथा हि-वैद्यस्यागमसव्यपेक्षस्य सम्यक् क्रियां कुर्वतो यद्यातुरविपत्तिर्भवति, तथापि न वैरानुषको भवेद्, दोषाभावात् / अपरस्य तु सर्पबुद्धया रज्जुमपि नतो भावदोषात् कर्मबन्धः, तद्रहितस्य तु न बन्ध इति / उक्तं चागमे- 'ऊचालिअंमि पाए' इत्यादि / तन्दुलमत्स्याख्यानकं तु सुप्रसिद्धमेव / तदेवं वध्यवधकभावापेक्षया स्थात् सहशत्वम्, स्यादसदृशत्वमिति, अन्यथाऽनाचार इति / एतेन लौकिकघातकत्वव्यवहारविषयीभूतैव हिंसा महाऽनर्थहेतुरिति परस्य यत्र तत्र प्रलपनमपास्तम् / अपि चैवमापवादिकोऽपि वधो महानर्थाय सम्पद्यते, ज्ञानादिहानिनिवारणमात्राभिमायस्य संयमपरिणतेऽ(रन)पायहेतुत्वेऽपि तत्कृतवधे लौकिक्रपातकत्यव्यवहारविषयत्वेनाशुद्धवानिवृत्तेः। पठ्यते च यतनादिनाऽपवादस्य शुद्धत्वमेव / तदुक्तं वृहत्कल्पभाष्ये "गीयत्यो जयणाए कडजोगी कारणमि णिद्दोसो। एगेसि गोयकडो अरत्तदुट्टो य जयणाए // 1 // ति / तस्मादागमोदितयतनयाऽध्यात्मशुद्धिरेव संयमरक्षाहेतुर्नत्वनाभोग इति स्थिसम् / अत एव विरताविरतयोर्जानतोरजानतोश्च विराधनायां यतनानिमिसकाऽध्यात्मशुदि-तदशुद्धिविशेषात् कर्मनिर्जराबन्धविशेषो व्यवस्थितः / तदुक्तं वृहत्कल्पभाष्यवृत्त्योद्वितीयखण्डे-अथ ज्ञाताज्ञातद्वारमाह१ उच्चालिते पादे / 2 गीतार्थो यतनया कृतयोगी कारणे निर्दोषः / एकेषां गीतकृतोऽरक्तद्विष्टश्च यतनया // For Private and Personal Use Only