________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 185 " 'जाणं करेइ इक्को हिंसमजाणमपरो अविरओ अ। तत्थवि बंधविसेसो महंतरं देसिओ समए // 1 // इह द्वावपिरतो, तत्रैकस्तयोर्जानन् हिंसां करोति विचिन्त्येत्यर्थः, अपर पुषरजानन्, तत्रापि तयोरपि बन्धविशेष: 'महंतरं'ति महताऽन्तरेण देशित: समये-- सिद्धान्ते / तथाहि-यो जानन् हिंसां करोति, (स) तीव्रानुभावबहुतरं पापकर्मोंपचिनोति: इतरस्तु मन्दतरविपाकमल्पतरं तदेवोपादत्ते। " २विरतो पुण जो जाणं कुणति अजाणं च अप्पमत्तो य / तत्थवि अज्झत्थसमा संजायति णिजरा ण चओ // 1 // ". यः पुनर्विरतः प्राणातिपातादिनिवृत्तः स जानानोऽपि ' सदोषमिदम्' इत्यवबुध्यमानोऽपि गीतार्थतया द्रव्यक्षेत्रायागाढेषु प्रलम्बादिग्रहणेन हिंसां करोति, यहा न जानाति परमप्रमतो विकथादिप्रमादरहित उपयुक्तः सन् यत्कदाचित् माण्युपधातं करोति तत्राप्यध्यात्मसमा चित्तप्रणिधानतुल्या निर्जरा सआयते / यस्य यादशस्तीवो मन्दो मध्यमो वा शुभाध्यवसायस्तस्य तादृश्येव कर्मनिर्जरा भवतोति भावः। 'न चओ'त्ति न पुनश्चयः-कर्मबन्धः सूक्ष्मो भवति, प्रथमस्य भगवदाज्ञया यतनया प्रवर्त्तमानत्वाद्, द्वितीयस्य तु प्रमादरहितस्याजानतः कथं प्राण्युपघातनं मावि ? अदुष्टत्वादिति / यत्तु जीवघातवर्जनाभिप्रायवतां यतनया प्रवर्तमानानां छमस्थसंयतानामनाभोगजन्याशक्यपरिहारेण जायमानं जीवघातानृतभाषणादिकं (स)संयमपरिणामानपायहेतुः, संयमपरिणामानपायहेतुत्वं हि वर्जनाभिप्रायोपाधिकमेव, जीवविराधनायाः संयमपरिणामापगमहेतोर्जीवघातपरिणामजन्यत्वलक्षणस्य निजस्वरूपस्य वर्जनाभिप्रायेण परित्याजनात् / अयं भावः-यद्धर्मविशिष्टं यद्वस्तु निजस्वरूपं जहाति स धर्मः तत्रोपाधिरिति नियमाद्, वर्जनाभिप्रायविशिष्टा हि जीवविराधना जीवघातपरिणामजन्यत्वं संयमनाशहेतुं परित्यजति, तेन संयमपरिणामानपायद्वारा वर्जनाभिप्रायजन्यां निर्जरां प्रति जीवविराधनाया अपि प्रतिबन्धकाभावत्वेन कारणतापि / यदागमः "जा जयमाणस्स भवे विराहणा मुत्तविहिसमग्गस्स। ... 1 जानन् करोत्येको हिंसामजाननपरोऽविरतश्च / / तत्रापि बन्धविशेषो महाऽन्तरो देशितः समये // 2 विरतः पुनर्यो जानन् करोत्यजानॅश्चाप्रमत्तश्च / तत्रापि अध्यात्मसमा संजायते निर्जरा न चयः // 3 या यतमानस्य भवेद्विराधना सूत्रविधिसमग्रस्य / सा भवति निर्जराफला अध्यात्मविशोधियुक्तस्य / For Private and Personal Use Only