________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 183 कुवतामशक्यपरिहारा हिसा सूक्ष्मस्थूलजीवविषयकभेदेऽप्यशक्यपरिहारत्वेन. समानैव, विषयभेदात् तद्भेदं तु व्यवहारेण न वारयामः ।अत एवाब्रह्मसेवायामपि देशविरतस्य कृतसङ्कल्पमूलस्थूलजीवहिंसाप्रत्याख्यानाभङ्गान्न व्याधादिवढुष्टत्वम् / न चैवं देशविरतस्येव साधोरप्याभोगेन पृथिव्यादिवधे न दुष्टत्वमिति साधोः प्रत्याख्यानभादोषसमर्थनार्थ पृथिव्यादिजीवाभोगोऽप्यवश्यमभ्युपेयः। यदि च स्थूलत्रसविषयक एवाभोगोऽभ्युपगम्येत, तदा तद्विषयैव हिंसकान्ततो दुष्टा स्यात् , न चैवं जैनप्रक्रियाविदो बदन्ति, तैः क्षुद्रमहत्सववधसादृश्यवसदृश्ययोरनेकान्तस्यैवाभ्युपगमात् / तदुक्तं सूत्रकृताङ्गे 'जे केइ खुद्दगा पाणा अदुवा संति महालया। सरिसं तेहि बेरंति असरिसं ति य णो वए // एतेहिं दोहिं ठाणेहिं ववहारो ण विजई। एतेहिं दोहिं ठाणेहिं अणायारं तु जाणए ॥"त्ति एतद्वतियथा-"ये केचन क्षुद्रकाः सत्वाः पाणिन एकेन्द्रियद्वीन्द्रियादयोऽसकाया वा पञ्चेन्द्रिया अथवा महालया महाकायाः सन्ति विद्यन्ते, तेषां क्षुद्रकाणामल्पकायानां कुन्थ्वादीनां महान् वाऽऽलयः शरीरं येषां ते महालया हस्त्यवादयस्तेषां च व्यापादने सदृशं वैरमिति वज्र-कर्म विरोधलक्षणं वा वैरं सदृर्श समानम्, तुल्यप्रदेशत्वात् सर्वजन्तूनापित्येवमेकान्तेन नो वदेत् / तथा विसदृशमसदृशम, तद्व्यापत्तौ वैरं कर्मबन्धो विरोधो वा, इन्द्रियविज्ञानकायानां विसदृशत्वात् , सत्यपि प्रदेशतुल्यत्वे न सदृशं वैरमित्येवमपि नो वदेत् / यदि हि वेध्यापेक्षयैव कर्मवन्धः स्यात् ततस्तद्वशात् कर्मणोऽपि सादृश्यमसादृश्यं वा वक्तुं युज्यते; न च तशादेव बन्धः, अपि त्वध्यवसायवशादपि; ततश्च तीव्राध्यवसायिनोऽल्पकायसश्वव्यापादनेऽपि महद्वैरम, अकामस्य तु महाकायसत्त्वव्यापादनेऽपि स्वल्पमिति / एतदेव सूत्रेणैव दर्शयितुमाह- एतेही 'त्यादि। आभ्यामनन्तरोक्ताभ्यां स्थानाभ्यामनयोर्वा स्थानयोरल्पमहाकायव्यापादनकर्मबन्धसदृशत्व (विसदृशत्व)योर्व्यवहरणं व्यवहारो नियुक्तिकत्वान्न युज्यते। तथाहि-न वध्यस्य सदृशत्वमसदृशत्वं वैकमेव 1 येऽपि क्षुद्रकाः प्राणा अथवा सन्ति महालयाः / सदृशं तैरमिति असशमिति च नो वदेत् // एताभ्यां द्वाभ्यां स्थानाभ्यां व्यवहारो न विद्यते / पताभ्यां द्वाभ्यां स्थानाभ्यामनाचार तु जानीयात् / For Private and Personal Use Only