________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir धमिति संयमो दुराराधो भणितः / एवं सम्यक् प्रयत्नपरायणानामपि कदाचित कुन्थ्वादिस्थूलत्रसजीवविराधना स्यात् / सा च प्रायोऽसम्भविसम्भवेनावश्यभा. विनीति वक्तव्यम् / शक्यपरिहारजोवविषयकप्रयत्नवतोऽपि तत्परिहरणोपायस्यापरिज्ञानात्साऽप्यवश्यंभाविनी, विराधना द्वेषा-अनाभोगमूला अनाभोगपूविका, अनाभोगमूला आभोगपूर्विका चेति / तत्राद्य(या) जीवघाते जाते सत्येव तत्परिज्ञानाद् / द्वितीया तु निम्नप्रदेशादौ पिपीलिकादिकमवैवोत्पाटिते पादे दृष्ट्वाऽपि पादं प्रत्यादातुमशक्तस्य जीवघातावसरे जीवविषयकाभोगस्य विद्यमानलात्, परमनाभोगमूलिकापि स्थूलत्रसजीवविराधना संयतानां तजन्यकर्मवन्धाभावेऽपि लोकनिन्द्या भवत्येव, तत्क हिसाव्यपदेशहेतुत्वात् , तथाव्यपदेशः स्थूलत्रसजीवसम्बन्धित्वेन निजसाक्षात्कारविषयत्वात् / न चैवं केव लिवचसा निश्चिताऽपि सूक्ष्मत्रसजीवविराधना, तस्याश्छद्मस्थसाक्षात्कारविषयत्वाभावेन हिंसकव्यपदेशहेतुत्वाभावात् / अत एवाब्रह्मसेवायामनेकशतसहस्रपश्चेन्द्रियजीवविराधकोऽपि देशविरतिश्रावकों 'जीवविराधकः' इति व्यपदेशविषयो न भवति, (भवति ) चैकस्या अपि पिपीलिकाया विराधनेनाभोगेनापि; आभोगे च स्वज्ञातिज्ञातेऽपांक्तयोऽपि स्यात् , तेन निजसाक्षात्कारविषयीभूताविषयीभूतयोजीवघातयोर्महान् भेदः, अन्यथाऽब्रह्मसेवी श्रावको व्याधादिभ्योऽपि जीवघातकलेनाधिको वक्तव्यः श्यात्-इत्यादि परस्य कल्पनाजालमपास्तम्, संयतानां नधुत्तारे जलजीवविराधनाया आभोगमूलत्वेऽप्याज्ञाशुद्धत्वेनैवादुष्टलात् / यच्च तया न संयमस्य दुराराधखम, तस्याः कादाचित्कत्वादालम्बनशुद्धत्वाच। यथा च कुन्थूत्पत्तिमात्रेण सार्वदिकयतनाहेखाभोगदौर्लभ्यात् संयमस्य दुराराधत्वम् , तथा तथाविधक्षेत्रकालादिवशात् सूक्ष्मवीजहरितादिप्रादुर्भावेऽपि सार्वदिकतयतना: लाभोगदौर्लभ्यात् संयमस्य दुराराधत्वमेवेति तु 'दश वैकालिका अध्ययनवतामपि -सूक्ष्माष्टकविदां परिणतलोकोत्तरदयास्वरूपाणां प्रतीतमेव / स्थावरसूक्ष्मत्रस विषयकोऽनाभोगः केवलज्ञानं विना दुरत्यय इति तु सूक्ष्माष्टकयतनाविधानान्यथानुपपत्त्यैव बाधितं परिणामशुद्धयर्थं तद् नतु तदाभोगार्थम्-इत्येवं तदाभोगापलापे च स्थूलत्रसाभोगाभ्युपगमोऽप्युच्छिद्येत, तत्रापीत्थं वक्तुं शक्यत्वात् , चेष्टालिङ्गाभिव्यतेः स्थूलत्रसाभोगोऽभिव्यक्त एवेति चेत् , पृथिव्यादिजीवाभोगोऽपि जिनवचना भिहित लिङ्गादाज्ञापामाण्याद्वा किं नाभिव्यक्तः ? व्यक्तीयत्तयाऽनाभोगस्तु मनाक्स्पन्दकुन्थुतदनुकारिरजलुटिपुझेऽपि वक्तुं शक्यत इति न किश्चिदेतत् / ततो यतनां For Private and Personal Use Only