________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 176 वुकंतजोणि-थंडिल-अतसा दिन्ना विई (पीडि) अवि छुहाइ। तहवि ण गिण्हिसुं जिणो मा हु पसंगो असत्थहए” // यत्र भगवानावासितस्तत्र बहूनि तिलशकटान्यावासितान्यासन् / तेषु च तिला व्युत्क्रान्तयोनिका अशस्त्रोपहता अप्यायुःक्षयेणाचित्तिभूताः। ते च यघस्थण्डिले स्थिताः स्युस्ततो न कल्पेरन् , अत आह-स्थण्डिले स्थिताः, एवंविधा अपि त्रसैः संसक्ता भविष्यन्ति, अत आइ-अत्रसा:-तदुद्भवागन्तुकत्रसविरहिताः, तिलशकटस्वामिभिर्गृहस्थैश्च दत्ताः; एतेनादत्तादानदोषोऽपि तेषु नास्तीत्युक्तं भवति / अपि च ते साधवः क्षुधा पीडिता आयुषः स्थितिक्षयमकार्षुः, तथापि श्रीजिनो वर्द्धमानस्वामी नाग्रहीत् , मा भूदशस्त्रहते प्रसङ्गः, 'तीर्थकरेणापि गृहितम् ' इति मदीयमालम्बनं कृत्वा मत्सन्तानवर्तिनः शिष्या अशस्त्रोपहतं मा ग्राहिषुरिति भावः / युक्तियुक्तं चैतत् प्रमाणस्थपुरुषाणाम् / यत उक्तम्" विषीदंति प्रमाणानि प्रमाणस्थैविसंस्थुलैः ' इत्यादि / अत्र हि स्वजीतकल्पातिरिक्तस्थले तीर्थकृतः साधुसमानधर्मता प्रोक्ता, सा चाशस्त्रोपहतसचित्तवस्तुनोऽग्रहणेनोपपादिता, तच्चातिप्रसङ्गनिराकरणाभिप्रायेण, स च श्रुतामामाण्यबुद्धयैव स्यात् न तु भगवता प्रतिवेवितमिति छद्मस्थबुद्धिमात्रेण, छद्मस्थैरुत्सर्गतः प्रतिषिद्धत्वेन ज्ञायमानयोरपि भगवतो निशाहिण्डन-भेषजग्रहणादिप्रवृत्तेः श्रवणाद्, अपवादतोऽप्रतिषिद्धत्वज्ञानात् , तद्दर्शनेन छद्मस्थानामतिप्रसङ्ग इत्युक्तौ च सिद्वाऽनायालेनैव भगवतोऽपवादपत्तिः , तस्मादुन्नतनिम्नदृष्टान्तप्रदर्शितपरस्परप्रतियोगिकप्रकर्षापकर्षशालिगुणोपहित क्रियारूपोत्सर्गापवादाभावेऽपि साधुसमानधर्मतावचनाद् भगवति मूत्रोदितक्रियाविशेषरूपयोस्तयोर्यथोचिततया सम्भवोऽविरुद्ध इति युक्तं पश्यामः, तथा च धर्मोपकरणानेषणीयादिविषयप्रवृत्तेर्भगवतः स्वरूपत आपवादिकत्वेन तव मते आभोगेन प्रतिषिद्धविषयप्रवृत्त्युपधानस्य योगाशुभतानियामकत्वात् तया भगवद्योगानामशुभत्वापत्तिर्वज्रलेपायितैव / यदि च यत्तु श्रुतव्यवहारशुद्धस्याप्यनेषणीयत्वेनाभिधानं तत् श्रुतव्यवस्थामधिकत्यैवावसातव्यम्, 'यथाऽयं साधुरुदयनो राजा' इत्यत्र राजखमगृहीतश्रामण्यावस्थामपेक्ष्यैवेति स्ववचनाश्रयणाद् भगवत्स्वीकृताना(नां) श्रुतव्यवहारसिद्धाना (नां) प्रतिषिद्धत्वाभिमतविषयप्रवृति(ती)नां वस्तुतो न प्रतिषिद्धविषयत्वम्, न 1 व्युत्क्रालयोनि-स्थण्डिल-अत्रता दत्ताः अपि पीडिता क्षुधा / तथापि मा ग्रहीत् जिनो मा खलु प्रसङ्गोऽशस्त्रहते // For Private and Personal Use Only