________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir मान्यस्य भगवति नासम्भवस्तदाऽपवादविशेषस्यैव तथात्वे तत्सामान्यस्यापि भगवत्यनपायत्वमेव / युक्तं चैतत् , तीर्थकृतोऽप्यतिशयाधुपजोवनरूपस्वजीतकल्पादन्यत्र साधुसामान्यधर्मताप्रतिपादनात् / तदुक्तं बृहत्कल्पभाष्यवृत्योः-"परः पाह-पदि यद्यत्माचीनगुरुभिराचीण तत्तत्पाश्चात्यैरप्याचरितव्यम्, तर्हि तीर्थकरैः प्राकारछत्रत्रयादिका प्राभूतिका तेषामेवार्थाय सुरैर्विरचिता समुपजीविता, तथा वयमप्यस्मनिमित्तकृतं कि नोपजीवामः। मूरिराह 'कामं खलु अणुगुरुणो धम्मा तह वि हु ण सबसाहम्मा। गुरुणो जे तु अइसए पाहुडिआई समुवजीवे // 1 // काममनुमतं खल्वस्माकं यदनुगुरवो धर्मास्तथापि न सर्वसाधाधि न्त्यते, किन्तु देशसाधादेव / तथाहि-गुरवस्तीर्थकराः, यत्तु यत्पुनरतिशयान् प्राभृतिका सुरेन्द्रादिकृता समवसरणरचना तदादीन् आदिशब्दादवस्थितनखरो माधोमुखकण्टकादिसुरकृतातिशयपरिग्रहः; समुपजीवन्ति स तीर्थकुज्जीतकल्प इति कृत्वा न तत्रानुधर्मता चिन्तनीया / यत्र पुनस्तीर्थकृतामितरेषां च साधूनां सामान्यधर्मत्वं तत्रैवानुधर्मता चिन्त्यते / सा चेयमाचीर्णति दयते, २सगडदहसमभोमे अविअ विसेसेण विरहिअतरागं / तहवि खलु अणाइन एस णुधम्मो पवयणस्स // 1 // यदा भगवान् श्रीमन्महावीरस्वामी राजगृहनगरादुदायननरेन्द्रप्रवाजनाथ सिन्धुसौवीरदेशवतंसं वीतभयं नगरं प्रस्थितस्तदा किलापान्तराले बहवः साधवः क्षुधास्तृिषार्ताः संज्ञाबाधिताच बभूवुः / यत्र भगवानावासितस्तत्र तिलभृतानि शकटानि पानोयपूर्णच ह्रदः समभौमं च गर्ताबिलादिवर्जितं स्थण्डिलमभवद्, अपि च तत्तिलोदकस्थण्डिलजातं विरहिततरमतिशयेनागन्तुकैस्तदुत्थैव जीवैर्जितमित्यर्थः / तथापि खलु भगवता नाचीण नानुज्ञातम्-एषोऽनुधर्मः प्रवचनस्य सर्वैरपि प्रवचनमध्यमध्यासीनैरशस्त्रोपहतपरिहारलक्षण एव धर्मोऽनुगन्तव्य इति भावः / एतदेव विवृणोति 1 काम खलु अनुगुरवो धर्मास्तथापि खलु न सर्वसाधर्म्यात् / / गुरवो यत्त्वतिशयान् प्राभृतिकादीन् समुपजीवन्ति // 2 शकट-द-समभौममापि च विशेषेण विरहिततरम् / तथापि खल्वनाचीर्णमेषोऽनधर्मः प्रवचनस्य / For Private and Personal Use Only