SearchBrowseAboutContactDonate
Page Preview
Page 185
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir वा वाभिः 'इदं सावधम्' इति प्रज्ञाप्य प्रतिषेवित्वम्, इदमित्यनेन प्रत्यक्षव्यक्तिग्रहणात् तस्याश्चानवद्यत्वादिति विभाव्यते, तदा 'अनेषणीयं न ग्राह्यम्' इत्यादिसामान्यप्रतिषेधवाक्ये श्रुतव्यवहारश्रुद्धानेषणीयातिरिक्तानेषणीयादेनिषेध्यत्वं वक्तग्यम्, तथा चापवादिकमन्यदपि कृत्यं श्रुतव्यवहारसिद्धमित्यप्रतिषिद्धमेवेत्या. भोगेन प्रतिषिद्धविषयप्रवृत्तिः साधूनां कापि न स्यादिति खदपेक्षया यतीनाम शुभयोगत्वमुच्छियेतैवेति प्रमत्तानां शुभाशुभयोगत्वेन द्वैविध्यप्रतिपादकागमविरोधः, तस्मादाभोगेन जीवघातोपहितत्वं न योगानामशुभवम्, अशुभयोगजन्यजीवघातो जोवारम्भकत्वव्यवहारविषयः, अशुभयोगारम्भकपदयोः पर्यायलप्रसङ्गाद्, एकेन्द्रियादिष्वारम्भकत्वव्यवहाराभावप्रसङ्गाच; नहि ते आभोगेन जीवं नन्तीति। अस्ति च तेष्वप्यारम्भकव्यवहारः। तदुक्तं भगवतीवृत्ती-" 'तत्य णजे ते असंजया ते अविरई पडुच्च आयारंभा वि जावणो अणारंभा" इत्यस्य व्याख्याने इहाय भावः-यद्यसंयतानां सूक्ष्मैकेन्द्रियादीनां नात्मारम्भकादित्वं साक्षादस्ति, तथाप्यविरतिं प्रतीत्य तदस्ति तेषाम्, न हि ते ततो निवृत्ताः; अतोऽसंयतानामविरतिस्तत्र कारणमिति / निवृत्तानां तु कश्चिदात्माद्यारम्भकत्वेऽप्यनार म्भकलम् / यहाह- ' जा जयमाणस्स' इत्यादि; किन्तु सूत्रोदितेतिकर्तव्यतोपयोगपूर्वकव्यापारत्वं शुभयोगत्वं तदनुपयोगपूर्वकव्यापारत्वं चाशुभयोगसम्, तदुक्तं भगवतीहत्तौ-" शुभयोग उपयुक्ततया प्रत्युपेक्षणादिकरणम्, अशुभयोगस्तु तदेवानुपयुक्ततयेति / तत्र शुभयोगः संयतानां षष्ठेऽपि गुणस्थाने संयमस्व भावादेव, अशुभयोगच प्रमादेोपाधिकः / तदुक्तं तत्रैव-"प्रमत्तसंयतस्य हि शुभोऽशुभश्व योगः स्यात् , संयतखात्मादपरखाचेति " / तत्र प्रमत्तसंयतानामनुपयोगेन प्रत्युपेक्षगादिकरणादशुभयोगदशायामारम्भिको क्रियाहेतुव्यापारवत्वेन सामान्यत आरम्भक वादात्मारम्भकादित्वम्, शुभयोगदशायां तु सम्यक्कियोपयोगस्यारम्भिको क्रियाप्रतिबन्धकत्वात् , तदुपहितव्यापाराभावेनानारम्भकत्वम्, प्रमत्तगुणस्थाने सर्वदाऽऽरम्भिकीक्रियाभ्युपगमस्त्वयुक्तः, अनियमेन तत्र तत्पतिपादनात / तदुक्तं प्रज्ञापनायां क्रियापदे-आरंभियाणं भंते ! किरिया कस्स कजइ, गो०, अण्णयरस्सावि पमत्तसंजयस्स " इति / अत्रा १तत्र येते असंयतास्ते अविराने प्रतीत्य आत्मारम्भाअपि यावद् नो अनारम्भाः। 2 आरम्भिकानां भदन्त ! क्रिया कस्य क्रियते ? गौतम ! अन्यतरस्यापि प्रमत्तसंयतस्य / For Private and Personal Use Only
SR No.020309
Book TitleDharmpariksha
Original Sutra AuthorN/A
AuthorYashovijay
Publisher
Publication Year
Total Pages276
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy