________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir खेसं गओ अडवि इको संचिहए तहि चेव / तित्थयरो पुण पियरो खेत्तं पुण भावओ सिद्धिति / / एतासां गाथानामयं संक्षेपार्थः-अहछंदस्सत्ति / यथाछन्दस्य प्ररूपणा उत्सूत्रा-मूत्रादुत्तीर्णा द्विविधा भवति बातम्या / तद्यथा-चरणेषु चरणविषया, गतिषु गतिविषया // 1 // ___ तत्र या चरणे चरणविषया सा इयं वक्ष्यमाणा भवति, तामेवाह-पडिलेहणित्ति / मुखपोतिका मुखवस्त्रिका सैव प्रतिलेखिनी पात्रप्रत्युपेक्षिका पात्रकेसरिका, कि द्वयोः परिग्रहेण ? अतिरिक्तोपधिग्रहणदोषादेकयैव मुखपोतिकया कायभाजनोभयप्रत्युपेक्षणकार्यनिर्वाहणापरवैफल्यात् / तथा रयहरणणिसिज्जत्ति। कि रजोहरणस्य द्वाभ्यां निषद्याभ्यां कर्तव्यम् ? एकैव निषद्याऽस्तु / पायमत्तएत्ति / यदेव पात्रं तदेव मात्रक क्रियताम् , मात्रकं वा पात्रं क्रियताम् , किं द्वयोः परिग्रहेण ? एकेनैवान्यकार्यनिष्पत्तेः / भणितं च--" यो भिक्षुस्तरुणी बलवान् स एकं पात्रं गृह्णीयाद् " इति / तथा पट्टएत्ति / य एव चोलपट्टकः स एव रात्री संस्तारकस्योत्तरपट्टः क्रियताम् , किं पृथगुत्तरपट्टग्रहेग? / तथा पडलाई चोलत्ति / पटलानि किमिति पृथग् ध्रियेते (यन्ते ?), चोलपट्टक एव भिक्षार्थ हिण्डमानेन द्विगुणस्त्रिगुणो वा कृत्वा पटलस्थाने वा निवेश्यताम् / उण्णादसियत्ति। रजोहरणस्य दशाः किमित्यूर्णमय्यः क्रियन्ते, क्षौमिकाः क्रियन्ताम् , ता चूर्णमयीभ्यो मुदुतरा भवन्ति / पडिलेहणापोत्तंति / प्रतिलेखनावेलायामक पोतं प्रस्तार्य तस्योपरिसमस्त वस्त्रमत्युपेक्षणां कृत्वा तदनन्तरमुपाश्रयादहिः प्रत्युपेक्षणीयम् , एवं हि महती जीवदया कृता भवतीति // 2 // दंतछिन्नमिति / हस्तगताः पादगता वा नखाः प्रवृद्धा दन्तै छत्तव्याः न नखरदनेन / नखरदनं हि ध्रियमाणमधिकरणं भवति / तथा अलित्तंति / पात्रमलितं कर्तव्यम् , लेपे बहु दोषसंभवान्न पात्रं लेपनीयमिति भावः / हरियष्ठियत्ति / हरितप्रतिष्ठितं भक्तपानादि डगलादि च ग्राह्यम् , तद्ग्रहणे हि तेषां हरितकायजीवानां भारापहारः कृतो भवति / पमन्त्रणा यछन्नस्सत्ति / यदि छन्ने जीवदयानिमिचं प्रमार्जना क्रियते ततो बहिरप्रच्छन्ने क्रियताम्, दयापरि क्षेत्रं गतोऽट्वीमेकः संतिष्ठते तत्रैव / तीर्थकरः पुनः पिता व पुना भावतः सिरिरिति / For Private and Personal Use Only