________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ' इत्यनुभवसिद्धम् / केवलिनस्तु योगाः पराभिप्रायेणामाभोगमोहनीयाधभावेन परिशेषात् केवलज्ञानसहकृता एव जीवघातहेतवो भवन्ति, केवलज्ञानेन एताबन्तो जीवा अमुकक्षेत्रादौ ममावश्यं हन्तव्याः' इति ज्ञात्वैव केवलिना तयाताद, तथा च तस्य जीवरक्षादिकं कदापि न भवेत् , केवलज्ञानसहकृततद्योगानां सदा घातकत्वात् , जीवघातस्येव जीवरक्षाया म(अ)प्यवश्यभावित्वेन परिज्ञानाद्, उभयत्र केवलज्ञानस्य सहकारिकारणत्वकल्पने च केवलिनो योगानां जीवघातजीवरक्षाहेतू शुभाशुभत्वे सर्वकालं युगपद् भवतः एतच्चानुपपन्नम्, परस्परं प्रतिबन्धकत्वादित्येकतरस्याभ्युपगमे पराभिप्रायेण सर्वकालमशुभत्वमेव सिद्ध यतीति हन्तव्यचरमजीवहननं यावद्धिसानुबन्धिरौद्रध्यानप्रसङ्ग इति-एतद्वचनं परस्य प्रक्षिप्तम्, संरक्षणभावस्य संरक्षणानुबन्धिरौद्रध्यानस्य सादृश्याद् द्रव्यपरिग्रहाभ्युपगमे भगवतस्तुल्ययोगक्षेमत्वात् / शक्यं ह्यत्रापि भवादृशेन वक्तुम्, छद्मस्थसंयतानां परिग्राह्यवस्तुविषयकानाभोगसहकृतमोहनीयलक्षणसहकारिकारणवशेन कायादिव्यापाराः परिग्रहग्रहणहेतवतः, अत एव च परिग्राह्यवस्तुविषयकाभोगसहकृततथाविधमोहनीयक्षयोपशमादिसहकारिकारणविशिष्टाः परिग्रहत्यागहेतव इत्यनाभोगमोहनीयामाने केवलियोगानां परिग्रहग्रहणे केवलज्ञानमेव सहकारिकारणनिति यावत्कैवलिनो प. ोपकरणधरणं तावत् संरक्षणानुबन्धिरौद्रध्यानमक्षतमेवेति।द्रव्यपरिग्रहेऽभिलापमूलसंरक्षणीयत्वज्ञानाभावान रौद्रध्यानमिति यदि विभाव्यते, तदा द्रव्याहिंसायामपि स्वयोगनिमित्तकहिंसापतियोगिनि जीवे स्वेष्टहिंसाप्रतियोगित्वरूपघात्यत्वज्ञानाभावादेव न तदिति प्रगुणमेव पन्थानं किमिति न वीक्षसे ? // 51 // - अथ वस्त्रादिधरणं साधोरुत्सर्गतो नास्त्येव, कारणिकत्वात् : " तिहिं ठाणेहि वत्थं धरेजा, हिरिवत्तियं परीसहवत्तियं दुगंछावत्तियं ' इत्यागमेऽभिधानात् , किन्त्वापवादिकम् / तद्धरणकारणं च जिनकल्पायोग्यानां स्थविरकल्पिकानां सावैदिकमेव, निरतिशयत्वादिति तद्धरणमपि सार्वदिकं प्राप्तम् / तदुक्तं विशेषावश्यक " विहिय सुए चिय जओ धरेज तिहि कारणेहिं वत्थं ति / तेणं चिय तदवस्सं णिरतिसएणं धरेयव्वं // 1 त्रिभिः स्थानः वस्त्रं धारयेत्-ह्रीप्रत्ययं परिषहप्रत्ययं जुगुप्साप्रत्ययम्॥ 2 विहितं श्रुत एव यतो धारयेत् त्रिभिः कारणैः वस्त्रामिति / तेनैव सदवश्यं धारयितव्यं निरतिशयेन // जिनकल्पायोग्यानां होकुत्सापरिषहा यतोऽवश्यम् / ही लजेति वा स संयमस्तदर्थे विशेषेण // इति. For Private and Personal Use Only