________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 166 मोहं विना द्रव्याश्रवपरिणतिर्न स्वकारणप्रभवा केवलिनः सम्भवतीति चेत्तपाह-इतरथा द्रव्याश्रवपरिणतेर्मोहजन्यखनियमे द्रव्यपरिग्रहेण वस्त्रपात्ररजोहरणा दिलक्षणेन युतो जिनो मोहवान् भवेत् , द्रव्य हिसाया इव द्रव्यपरिग्रहपरिणतेरपि बन्मते मोहजन्यखाद् / न च धर्मोपकरणस्य द्रव्यपरिग्रहखमशास्त्रीयमिति शङ्कनीयम् / "दवओ णाम एगे परिग्गहे णो भावओ 1: भावओ णामेगे णो दवओ 2, एगे दवओवि भावओवि 3, एगे णो दवओवि णो भावओवि 4 / तत्थ अरत्तदुद्रुस्स धम्मोवगरणं दवओ परिग्गहो णो भावओ / मुच्छियस्स तदसंपत्तीए भावओ णो दवओ 2, एवं चेव संपत्तीए दवओवि भावओवि 3, चरिमभंगो पुण सुनोत्ति 4 // चतुर्भया दशवकालिक-पाक्षिकसूत्रवृत्तिचूादौ प्रसिद्धत्वात्। नच द्रव्यपरिग्रहयुतस्यापि भगवतो मोहवत्वमिष्यते, अतो न द्रव्याश्रवपरिणतिर्मोंहजन्येति भावः // 53 // . अनयैव प्रतिबन्धा केवलिनो द्रव्यहिंसायां सत्यां रौद्रध्यानप्रसङ्ग परापादित परिहरमाह'एएणं दव्यवहे जिणस्स हिंसाणुबंधसंपत्ती। श्य वयणं परिकतं, सारकणनावसारिच्छा // 4 // 'एएणं'ति / एतेन द्रव्यपरिग्रहयुतस्यापि भगवतो मोहाभावेन द्रव्यवधेऽभ्युपगम्यमाने जिनस्य हिंसानुबन्धसम्माप्तिहिंसानुबन्धिरौद्रध्यानप्रसङ्गः: छद्मस्थसंयतानां हि घात्यजीवविषयकानाभोगसहकृतमोहनोयलक्षणसहकारिकारणवशेन कापादिव्यापारा जोवघातहेतवो भवन्ति, त एव च योगा घात्यजीवविषयकाभोगसहकृततथाविधमोहनीयक्षयोपशमादिसहकारिकारगविशिष्टा जीवरक्षाहेतव 1 द्रव्यतो नाम एकः परिग्रहः, नो भावतः / भावतो नाम एकः परिग्रहः, नो द्रव्यतः / एको द्रव्यतोऽपि भावतोऽपि / एको नो द्रव्यतोऽपि नो भावतो. ऽपि / 1 तत्र अरक्तद्विष्टस्य धर्मोपकरणं द्रव्यतो परिग्रहः, नो भावतः / 2 मूर्जितस्य तदसंप्राप्त्या भावतो नो द्रव्यतः / 3 एवं चैव संप्राप्त्या द्रव्यतोऽपि मावतोऽपि / 4 चरमभङ्गः पुनः शून्य इति / 1 एतेन द्रव्यवधे जिनस्य हिंसानुबंधसंप्राप्तिः / इति वचनं प्रक्षिप्त संरक्षणभावसाहश्यात् // 54 // For Private and Personal Use Only