________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 165 जीवघातजन्या, किन्तु प्रमतयोगजन्या; " 'सही पमत्तजोगी आरंभोति" वचमाद; अन्यथाऽऽरम्भिकी क्रिया कस्यचित्पमत्तस्य कादाचिस्क्येव स्यात्, तत्कारणस्य जोरघातस्य (कस्य )चित्कादाचित्कखात् , अस्ति चारम्भिकी क्रिया प्रमत्तगुणस्थानं यावदनवरतमेव / किश्च-यदि जीवघातेनारम्भिकी क्रिया भवेत् / तदाऽपरोऽममतो दूरे, उपशान्तचीतरागस्याप्यारम्भिकी क्रिया वक्तव्या स्याद: अस्ति च तस्य सत्यपि जोवधाते ईर्यापथित्येव क्रियेति न जीवयातासंयतस्यारम्भिको क्रिया, किन्तु प्रमत्तयोगादिति स्थितम् / स च प्रमत्तो योगः प्रमादैभवति / ते च प्रमादा अष्टधा शास्त्रे प्रोक्ताः-१ अज्ञान-२ संशय-३ विपर्यय-४ राग५ द्वेष-६ मतिभ्रंश-७ योगदुष्पणिधान-८ धर्मानादरभेदात् / ते चाज्ञानवर्जिताः सम्यग्दृष्टेरपि सम्भवन्तोऽतः प्रमत्तसंयतपर्यन्तानामेव भवन्ति न पुनरममत्तानामपि, प्रमादाममादयोः सहानवस्थानात् / तेनेहाष्टासु प्रमादेषु यौ रागद्वेषौ प्रमादत्वेनोयात्तौ (तौ ) योगानां दुष्पणिधानजननद्वाराऽऽरम्भिकी क्रियाहेतू ग्राह्यो; तयोश्च तथाभूतयोः फलोपहितयोग्यतया जीवघातं प्रति कारणलस्य कादाचित्कत्वेऽपि स्वरूपयोग्यतया तथात्वं सार्वदिकमेव / यद्यपि सामान्यतो रागद्वेषावप्रमत्तसयतानामपि कदाचित्फलोपहितयोग्यतयापि जीवघातहेतू भवतस्तथापि तेषां तो न 'प्रमादौ; यतनाविशिष्टया प्रवृत्या सहकृतयोस्तयोरारम्भिकीक्रियाया अहेतुखात: तदप्यनाभोगसहकृतयतनाविशिष्टयो रागद्वेषयोर्योगानां दुष्पणिधानजनने साम •भावात् , सम्यगोर्यया प्रवृत्त्या तयोस्तथाभूतसामर्थ्यस्यापहरणात्, न चैवं प्रमतानां सम्भवति, तेपामयतनया विशिष्टयोस्तयोर्योगानामशुभताजनकत्वेनारम्भिकी क्रियाहेतुखाद्, अत एव प्रमत्तानां विनाऽपवादं जीवघातादिकं प्रमादसहतानाभोगजन्यम् / तदुक्तं दशवैकालिकवृत्तौ-"अयतनया चरन् प्रमादानाभोगाभ्यां प्राणिभूतानि हिनस्तीति" / ततः संयतानां सर्वेषां द्रव्याश्रव एव भवति / तत्र प्रमत्तसंयतानामपवादपदप्रतिषेवणावस्थायामाभोगेऽपि ज्ञानादिरक्षाभिमायेण संयमपरिणामानपायाद्रव्यखम, अन्यावस्थायां बनाभोगाद् / अप्रमतसंवतानां खपवादानधिकारिणां घात्यजीवविषयकाभोगप्रमादयोरभाव एवेत्यदिनाभोगसहकृतमविशेषितं मोहनीयं कमैव जीवघातादिकारणं सम्पन्नम्, तयोरेकतरस्याभावेऽप्यप्रमत्तसंयतानां द्रव्याश्रवो न भवत्येवेति ततः प्रमत्तान्तानां प्रमादाद् अप्रमत्तानांतु मोहनीयानाभोगाभ्यां द्रव्याश्रवपरिणतिरिति सिद्धमिति // 1 सर्वः प्रमत्तयोग भारम्भ इति, For Private and Personal Use Only