________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 'दव्यासक्स्स'त्ति / गर्दाविषयस्य द्रव्याश्रवस्य विगमो यदि तहिंति तत्र क्षीणमोहे इष्टोऽभिमतो भवतस्तर्हि अर्थतोऽर्थापत्या भावगतं पापं तत्र पतिपन्नं भवति, गर्हणीयपापत्वावच्छिन्नं प्रति त्वन्मते मोहनीयकर्मणो हेतुत्वाद, तन्निवृत्तौ गर्हणीयपापनिवृत्तावप्यगर्हणीयभावरूपपापानिवृत्तेः, अगर्हणीयपापेऽप्यनाभोगस्य हेतुत्वात् तनिवृत्तौ केवलिनस्तनिवृत्तिः / क्षीणमोइस्य स्वाश्रवच्छायारूपम गर्हणीयपापमभ्युपगम्यत एवेति न दोष इति चेत्, न / अभ्यन्तरपापमात्रस्य गहाँपरायणजनाप्रत्यक्षत्वेन त्वमतेऽगर्हणीयत्वात् तस्सामान्येनाभोगस्य हेतुत्वात् / मोहाजन्यागर्हणीयपापेऽनाभोगस्यान्यत्र च तत्र मोहस्य हेतुत्वान्न दोष इति चेत्,न। गहगीयपापहेतोर्मोहस्यागर्हणीयपापहेतुत्वाभावाद्, अन्यथा तजन्यगर्हणीयागर्हणीयोभयस्वभावैकपापप्रसङ्गादिति न किञ्चिदेतत् // 52 // - द्रव्याश्रवस्य मोहजन्यत्वमेव व्यक्त्या निराकुर्ववाह"णियणियकारणपत्नवा दव्वासवपरिणई ण मोहायो। इहरा दवपरिग्गहजुओ जिणो मोहवं हुज्जा॥५३॥ व्याख्या-द्रव्याश्रयाणांप्राणातिपात-मृषावादादीनां परिणतिनिजनिजकारणानि यानि नोदनाभिवातादियोगव्यापारमृषाभाषावर्गणाप्रयोगादीनि तत्पभवा सती न मोहान्मोहनीयकर्मणो भवति-मोहजन्या नेत्यर्थः / क्वचित्प्रवृत्यथै मोहोदयापेक्षायामपि द्रव्याश्रवसावच्छिन्ने मोहनीयस्याहेतुत्वाद्, अन्यथाऽऽहारसंज्ञावतां केवलाहारप्रवृत्तौ बुभुक्षारूपमोहोदयापेक्षणात्कवलाहारखावच्छिन्नेऽपि मोहस्य हेतुखात् केवली कवलभोज्यपि न स्यादिति दिगम्बरसगोत्रखापत्तिरायुष्मतः / अथ कवलाहारस्य वेदनीयकर्मप्रभवखान्न तत्र मोहनीयस्य हेतुत्वम्, आश्रवस्य तु मोहमभवलासिद्धेर्द्रव्याश्रवपरिणतिरपि मोहजन्यैव, तत्रोदितं चारित्रमोहनीयं भावाश्रवहेतुरसंयतानां सम्पद्यते, संयतानां तु प्रमत्तानामपि सत्तावर्तिचारित्रमोहनीयं द्रव्याश्रवमेव सम्पादयति, सुमङ्गलसाधोरिवाऽऽभोगेनापि जायमानस्य तस्य ज्ञानाद्यर्थमत्यापवादिकत्वेन तज्जन्यकर्मबन्धाभावात्संयमपरिणामस्यानपायेनाविरतिपरिणामस्याभावात्तदुपपत्तेः / या तु तेषामारम्भिकी क्रिया सा न 1 निजनिजकारणप्रभवा द्रव्यानवपरिणतिर्न मोहात् / . इतरथा द्रव्यपरिग्रहयुतो जिनो मोहवान् भवेत् // 53 // For Private and Personal Use Only