________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir दयेद् अभ्यन्तरपापप्रतिषेवणे तु प्रतिगुणस्थानं महानेव भेदो दृश्यत इति केवलिनि तदत्यन्ताभावसिद्धिरनाबाधैवेति // 50 // - नन्वेवं वीतरागपदेनोपशान्तमोहोऽपि वृत्तिकृता कथं न गृहीतः ? तस्याप्यप्रतिषेवित्वाद्-इत्याशङ्कायामाह'परिणिहियवयणमिणं, जं एसो होइ खीणमोहंमि। नवसमसेढीए पुण, एसो परिणिहिओण हवे // 5 // 'परिणिट्टियवयणमिणं 'ति / परिनिष्ठितवचनं सम्पूर्णफलवचनमेतद्. यदेषोऽकरणनियमः क्षीणमोहे भक्तीति / उपशमश्रेण्यां त्वयमकरणनियम परिनिष्ठितो न भवेत् , तस्याः प्रतिपातस्य नियमात् , तत्राकरणनियमवैशिष्टयासिद्धेः, परिनिष्ठितविशिष्टाकरणनियमाधिकारादेव क्षीणमोहादिर्वीतरागो वृत्तिकृता विवक्षित इति न कोऽपि दोष इति भावः / परिनिष्ठिताप्रतिषेवित्वफलभागित्वादेव च क्षीणमोहस्य कषायकुशीलादेविशेषोऽप्रतिषेवित्वं वा भगवतोऽभिधीय. मानमपकृष्यमाणसकलपापाभावीपलक्षणमिति स्मर्तव्यम् // 51 // ननु वीतरागो गर्हणीयं पापं न करोतीति वचना महणीयपापाभावः क्षी णमोहस्य सिद्धयति, गर्हणीयं च पापं द्रव्याश्रव एव, तस्य गर्दापरायगजनस्य प्रत्यक्षत्वादिति द्रव्याश्रवाभावस्तत्र सिद्ध एप, अत एव क्षोणमोहस्य कदाचिदनाभोगमात्रजन्यसम्भावनारूहाश्रवच्छायारूपदोषसम्भवेऽपि न क्षतिः, तस्याध्यवसायरूपस्य छमस्थज्ञानगोचरत्वेनागर्हणीयत्वाद्, गर्हणीयद्रव्याश्रवाभावादेव तत्र वीतरागत्वाहाने:-इत्याशङ्कायामाहदवासवस्स विगमो गरहा विसयस्स जा गरहावसयस्स ज तहि हो। तानावगयं पावं पडियन्नं अत्थो हो // 5 // सर्वविरतिगुणस्थाने विशिष्टतरश्चायं भवति // 1 // यत्स प्रधानतर आशयभेदश्च तत एषः / इत एव श्रेण्यां ज्ञेयः सर्वत्राप्येष. // 2 // इतश्च वीतरागो न किंचिदपि करोति गर्हणीयं तु / सतस्तद्गतिक्षपणादिकल्प एव विज्ञेयः // ... 1 परिनिष्ठितवचनमिदं यदेषो भवति क्षीणमोहे / उपशमश्रेण्यां पुनः-एष परिनिष्ठितो न भवेद // 2 द्रव्याखवस्य विगमो गोविषयस्य यदि तष्टः / सतो भावगतं पापं प्रतिपत्रमर्थतो.भवति // 59 // For Private and Personal Use Only