________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir निणकप्पाजोगाणं हीकुच्छ-परिसहा जो वस्स। ही लग्नंति व सो संजमो तयत्थं विसेसेण ॥ति (पृ.१०३८.गा.२६०२-३) भगवतश्च यद्यपि वस्त्रादिधरणं ही-कुत्सा-परिषहमत्ययं न सम्भवति, तस्य तदभावात् , तथापि शीतोष्णादिपरीपहप्रत्ययं तत् , आहारनिमित्तक्षुत्पिपासापरीषहवहस्रधरणनिमित्तशीतोष्णादिपरिषहसत्ताया अपि भगवत्यविरोधात् , तथा प्र. कारेण तथाविधं कर्म क्षपणीयमित्यभिपायाच न रागादिविकल्पः, तथाविधसाध्वाचारस्थितिपरिपालनाभिप्रायेणैव वा तदिति धर्मार्थमत्युपगृहीतत्वाद् द्रव्यपरिग्रहे भगवतो न दोषः / यजातीयद्रव्याश्रवे संयतानामनाभोगेनैव प्रवृत्तिस्तजातोयद्रव्याश्रवस्यैव मोहजन्यत्वाभ्युपगमादनर्थदण्डभूतद्रव्यहिंसादेरेवं तथात्वाद, धर्मोपकरणरूपे द्रव्याश्रवे तु संयतानां नानाभोगेनैव प्रवृत्तिः, किन्तु धर्माधर्मायमस्याऽपरिग्रहत्वाभोगेनैवेति स्वकारणलब्धजन्मनस्तस्य भगवत्यविरोधः-इत्याशङ्कायामाह अववाओवगमे पुण इत्थं नणं पश्एणहाणी ते / पावंति असुहजोगा एवं च जिणस्स तुज्क मए // 55 // 'अववाओवगमे पुण'त्ति।अत्र भगवतो द्रव्यपरिग्रहेऽपवादोपगमेऽपवादाश्रीकारे पुनस्ते तव प्रतिज्ञाहानिः, अपवादप्रतिषेवणं च संयतेष्वपि प्रमत्तस्यैव भवसीति तव प्रतिज्ञेति / च पुनरेवं धर्मोपकरणसद्भावेनापवादतो द्रव्याश्रवाभ्युपगमे तव मते जिनस्याशुभयोगाः प्राप्नुवन्ति / इदं हि तव मतम्-योगानामशुभत्वं तावन्न जीवघातहेतुत्वमात्रेण, उपशान्तगुणस्थानं यावदप्रमत्तसंयतानां कदाचित्सद्भूतजीवघातसम्भवेन “तत्य गं जे ते अपमत्तसंजया ते णं णो आयारंभाणो परारंभा, णो तदुभयारंभा, अणारंभा"-इत्यागमप्रतिपादिसनारम्भकत्वानु पपत्तिप्रसक्तेरशुभयोगानामारम्भकत्वव्यवस्थितेः, किन्तु फलाहितयोग्यतया घात्यजीवविषयकाभोगपूर्वकजीवघातहेतुत्वेन; अत्र फलोपहितको गति पदं केवलि 1 अपवादोपगमे पुनरित्यं नूनं प्रतिज्ञाहानिस्ते / __ प्राप्नुवति अशुभयोगा एवं च जिनस्य तव मते // 2 तत्र येते अप्रमतसंयतास्ते शुभयोगं प्रतीत्य नसे आत्मारंभा नो परारम्भा को सबुभवारम्भा अनारम्भाः // For Private and Personal Use Only