________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir तथाऽस्मादुत्सूत्रप्रवृत्तिपतिवन्धिका भावत ईर्यापथिकी क्रियैव, यथाख्यातचारित्रप्रतिबन्धिका च मोहनीयोदयजन्या साम्परायिकी क्रिया भवतीति सम्यपर्यालोचनायामुपशान्तवीतरागस्य नोत्सूत्रप्रवृत्तिनवा यथाख्यातचारित्रहानिरिति चेत् / न, द्रव्यवधस्य गर्हणीयत्वे प्रतिषिद्धपतिषेवणरूपत्वे च तेनोपशान्तमोहस्यापि यथाख्यातचारित्रस्य निर्ग्रन्थवस्य च विलोपप्रसङ्गस्य वज्रलेपखात् / " २परिहारविसुद्धियसंनए पुच्छा, गो० णो पडिसेवए होजा, अपडिसेवए होजा / एवं जाव अहक्खायसंजए कसायकुसीले पुच्छा, गो० णो पडिसेवए होजा, अपडिसेवए हुजा, एवं णियंठेवि, एवं सिणाए वि / " इत्याद्यागमेन प्रतिषिद्धप्रतिषेवणस्योपरितनचारित्रनिग्रन्थत्रयविरोधिताप्रतिपादनात् संयमप्रतिकूलार्थस्य सज्वलनकषायोदयात् सेवकः-प्रतिवेवक इति प्रतिषेवणाद्वारे व्याख्यानात् प्रतिवेवणाविशेषेणैव यथाख्यातचारित्रादिविरोधव्यवस्थितेः // अनाभोगजद्रव्यहिंसायाः प्रतिषिद्धप्रतिषेवणरूपत्वे उपशान्तमोहत्तित्वे च न बाधकमिति चेत् / न, प्रतिषेवापदविषयविभागेऽनाभोगजपतिषेवाया अपि परिगणनाद् / यदागमः-" २दसविहा पडिसेवणा पण्णत्ता। तं०-दप्प-प्पमाय-ऽणाभोग-आउरे आवईइ य संकिए सहसका(र)-भय-प्पदोसा य वीमसत्ति / " तस्माद्व्यहिसायाः प्रतिषेवणारूपवाभ्युपगमे तवाप्युपशान्तमोहस्य प्रतिषेवित्वं स्यादित्यप्रति षेविखव्याप्ययथाख्यातचारित्रनिर्ग्रन्थखयोस्तत्र का प्रत्याशा ? मोहोदयविशिष्टप्रतिषेवणत्वेनोत्सूत्रप्रवृत्तिहेतुमभ्युपगम्य वोतरागे मोहसत्ताजन्यप्रतिषेवणाश्रयणेऽपसिद्धान्तादिदोषा दुर्द्धरा एव प्रसज्येरन् , मोहोदयसत्ताजन्योत्सूत्रप्रवृत्तिहेतुप्रनिषेवणाभेदस्य कापि प्रवचनेऽश्रुतखात् , प्रत्युत कषायकुशीलादिपरिहारविशुद्धिकायुपरितननिर्ग्रन्थसंयमत्रयस्याप्रतिषेविखाभिधानाद् / मोहोदयमात्रमपि न प्रतिषेवणाजनकमिति तत्सत्ताजन्यप्रतिषेवणवार्तापि दूरोत्सारितैवेति तस्या उत्सूत्रप्रवृत्तिहेतुत्वे मोहोदयविशिष्टत्वं तन्त्रमित्यत्र मूत्रसम्मतिप्रदर्शनमत्यसमअसम्, ततः पुलाकबकुशपतिसेवाकुशीलत्रयस्यपकृष्टसंयमस्थाननियतसंज्वलनोदयव्याप्य एत्र व्यापारविशेषः प्रतिषेवणारूपः स्वीकर्तव्यः, स एव च साधूनां गर्हणीय 1 परिहारविशुद्धिकसंयते पृच्छा, गौतम ! न प्रतिषेधको भवेत, अप्रतिषेवको भवेद, एवं यावत् यथाख्यातसंयते कषायकुशीले पृच्छा, नो प्रतिषेवको भवेद अप्रतिषेवको भवेत् / एवं निर्ग्रन्येऽपि, एवं स्नातकेऽपि // 2 दशविधा प्रतिषेवणा प्रसप्ता, तद् यथा-दर्प-प्रसादा-लामोगा- तुरापदश्च शडिस. सहलात्कार-भय-प्रद्धेषाश्च-विमर्श इति ! For Private and Personal Use Only