________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 160 खीणे मोहे'त्ति क्षीणे मोहे निस्सत्ताकीभूते मोहनीयकर्मणि नियमान्निश्चयेन गर्हविषयः / कृत्यं गर्हणीयं प्राणातिपातादिकर्म न भवति, कस्यापि प्राणिनः / तदुक्तमुपदेशपदे " इत्तो अवीयरागो ण किंचि वि करेइ गरहणिजंतु"त्ति / एतद्वृत्त्येकदेशो यथा-इतस्त्वित एवाकरणनियमात्कृतरूपाद्वीतरागः क्षीणमोहादिगुणस्थानवर्ती मुनिर्न नैव किश्चिदपि करोति जीवघातादिकं सर्व गहणीयं त्ववद्यं देशोनपूर्वकोटीकालं जीवन्नपीति इति हेतोः।” सा हिंसा जिनानां विगलितसकलगहणीयकर्मणां क्षीणमोहवीतरागाणां न भवतीति तव मतिः केवलं भावप्राणातिपातनिषेधापेक्षया सविषया स्याद् , द्रव्यवधे तु निर्विषया भवति, तस्याशक्यपरिहारत्वेनागर्हणीयत्वात् ; द्रव्यभावोभयरूपस्य केवलभावरूपस्य च प्राणातिपातादेव्रतभङ्गरूपत्वेन शिष्टलोकगर्हणीयत्वादशिष्टगर्दायाश्चाप्रयोजकत्वात् / क्रूरकर्माणो हि न स्वयंभूरयं किन्तु मनुष्य इति, कथमस्य देवत्वम् ? कवलाहारवतो वा कथं केवलित्वम् ? इत्यादिकां भगवतोऽपि गहीं कुर्वन्त्येवेति / न चेदेवं तदोपशान्तमोहगुणस्थानवर्तिनो गर्हणीयप्राणातिपाताद्यभ्युपगमे यथाख्यातचारित्रविलोपप्रसङ्गः / __ अथोपशान्तमोहवीतरागस्य मोहनीयसत्ताहेतु कः कदाचिदनाभोगसहकारिकारणवशेन गर्हापरायणजनस्य प्रत्यक्षत्वाद् गर्हणीयो जीवघातो भवत्येव, नतु यथाख्यातचारित्रलोपस्तेन भवति, उत्सूत्रप्रवृत्तेरेव तल्लोपहेतुत्वात् / न च प्रतिषिद्धप्रतिषेवणमात्रेणोत्सूत्रप्रवृत्तिः, किन्तु साम्परायिकक्रियाहंतुमोहनीयोदयसहकृतेन प्रतिषिद्धप्रतिषेवणेन, / सा चोपशान्तवीतरागस्य न भवति, तस्या मोहनीयानुदयजन्येर्यापथिकीक्रियया बाधितत्वात् ; उत्सूत्रप्रवृत्तीर्यापथिकोक्रिययोः सहानवस्थानाद् / यदागमः ___" जस्स णं कोहमाणमायालोमा वुच्छिण्णा भवन्ति तस्स णं इरियावहिया किरिया कज्जति / तहेव जाव उस्सुत्तं रीयमाणस्स संपराइआ किारया कज्जति, से णं अहा सुत्तमेव रीय(य)इत्ति // " 1 यस्य खलु क्रोधमानमायालोमा व्युच्छिन्ना भवन्ति, तस्य खलु इर्यापथिको क्रिया कार्या, तथैव यावत् उत्सूत्रं रीय मानस्य साम्परायिका क्रिया कार्या / स खल यथासूत्रं रोयते // For Private and Personal Use Only