________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 153 त्रिचतुःपञ्चेन्द्रियास्तेषां परापरस्थिती इत्यादियावत्साधारणवनस्पतरनन्ता अप्युत्सर्पिण्यवसर्पिण्यः” इत्यादीनि परेणोक्तं ते त्वनाकलितग्रन्थानां विभ्रमोपादकं प्रेक्षावतां तूपहासपात्रम् / परापरभवस्थितिकायस्थितिविवेकस्य तत्र प्रतिपादितत्वात् , उत्कृष्टकायस्थितेरेव तिर्यग्योनीनामनन्तपर्यवसानात् प्रकृते च भवग्रहणाधिकारात् न तत्कायस्थिनिग्रहणं कथमपि सम्भवतीति किं पल्लवग्राहिणा समधिक विचारणयेति कृतं प्रसक्तानुप्रसक्त्या // 44 // तदेवं मरीचेरिव स्तोकस्याप्युत्सूत्रस्य दुःखदायित्वादन्येषां गुणानुमोदनं न कर्त्तव्यम्'-इत्युत्सून त्याज्यम् , कर्तव्या च गुणानुमोदना सर्वेषामपीति व्यवस्थापितम् , अथ सूत्रभाषकाणां गुणमाहसुत्तं भासंताणं णिचं हिययदिओ हवइ भयवं / हिययटिअंमि तंमि य णियमा कलागसंपत्ती // 45 // ‘सुतं आसंताण'ति / सूत्रं भाषमाणानां नित्यं निरन्तरं भगवांस्तीर्थङ्करो हृदयस्थितो भवति, भगवदाज्ञाप्रणिधाने भगवत्प्रणिधानस्यावश्यकत्वात् , आज्ञयोः ससम्बन्धिकत्वात् / हृदयस्थिते च तस्मिन् भगवति सति नियमान्निश्चयात् कल्याणसम्पत्तिः, समापत्त्यादिभेदेन तीर्थकृद्दर्शनस्य महाकल्याणावहतायाः पूर्वाचार्यैः प्रदर्शितत्वादिति // 45 // कल्याणप्रापकत्वं च हृदयस्थितस्य भगवतोऽनर्थनिराकरणद्वारा स्यादित्यन्वयव्यतिरेकाभ्यां तस्यानर्थनिराकरणहेतुत्वगुणमभिष्टुवन्नाह हिययट्टिओ अभयवं, छिंदइ कुविगप्पमत्तभत्तस्स। तयभत्तस्स उ तंमिवि भत्तिमिमा होइ कुविगप्पो॥ 'हिययडिओअत्ति। ह्रदयस्थितश्च भगवानात्मभक्तस्य खसेवकस्य कुविकल्पं कुतर्काभिनिवेशरूप छिनत्ति / दुर्निवारो हि प्राणिनामना सूत्रं भाषमाणानां नित्यं हृदयस्थितो भवति भगवान् / हृदयस्थिते तस्मिंश्च नियमात्कल्याणसंपत्तिः // 45 // हृदयस्थितश्च भगवान् छिनत्ति कुविकल्पमात्मभक्तस्य / तदभक्तस्य तु तस्मिन्नपि भक्तिमिषाद् भवति कुविकल्पः॥४६॥ For Private and Personal Use Only