SearchBrowseAboutContactDonate
Page Preview
Page 163
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir यवृत्तावपि केषुचिदादशेष्वयमेव पाठोऽस्ति / आदर्शान्तरे च-"अति. दुडकरतपोविधानेऽपि किल्विषदेवत्वं निर्वर्तितवान् " इति। उक्तंच प्रज्ञप्ती-"जइ णं भंते." इत्यादि रचनया पाठोऽस्ति। एवंस्थिते मध्यस्था गीतार्था इत्थं प्रतिपादयन्ति-यदुत भगवत्यादिबहुग्रन्थानुसारेण परिमितभवत्वं जमालेायते, सिद्धर्षीयवृत्तिपाठविशेषाद्यनुसारेण चानन्तभवत्वमिति, तत्त्वं तु तत्वविद्वेयमिति; परं भगवतीसूत्रं प्रकृत तार्थेन विवृतमस्ति, तत्समुख्यं च वीरचरित्रादिग्रन्थं तेषु दृश्यते, संमतिप्रदर्शनं स्वर्थद्वयाभिधानप्रक्रमेऽप्येकार्थापुरस्कारेणापि संभवति। यथा नानाकारं कायेन्द्रियम् , असंख्येयभेदत्वात् , अस्य चान्तर्षहिआंदो न कश्चित् / प्रायः प्रदीर्घसंस्थितं कर्णाटकायुधं क्षुरप्रस्तदाकारं रसनेन्द्रियम् , अतिमुक्तकपुष्पदलचन्द्रकाकारं किंचित्सकेसरवृत्ताकारमध्यविनतं घ्राणेन्द्रियम् , किंचित्समुन्नतमध्यपरिमण्डलाकारं धान्यमसूवचक्षुरिन्द्रियम् , पाथेयभाण्डकयवनालिकाकारं श्रोत्रोन्द्रियं नालिककुसुमाकृति चावसेयम् , तत्रायं खकायपरिमाणं द्रव्यमनश्च, शेषाण्यकुलासंख्येयभागप्रमाणानि सर्वजीवानाम् / तथा चागमः-" फासिदिए णं भंते किंसंठिए पण्णत्ते ? गोयमा ! णाणासंठाणसंठिए / जिम्भैदिए गं भंते कि संठिए पण्णते ? गोयमा! खुरप्पसंठिए। घाणेदिए णं भंते किंसंठिए पण्णते? गोयमा! अतिमुत्तयचंदगसंठिए पण्णत्ते। चखुरिदिए णं भते किंसंठिए पण्णते? गोयमा! मसूरय चंदसंठिए / सोइदिए णं भंते किंसंठिए पण्णत्ते ? गोयमा ! फलंबुआपुफसंठिए पण्णत्ते"-इति / अत्र हीन्द्रियसंस्थानं तत्परिमाणं चेति द्वयमुपक्रान्तं, संमतिप्रदर्शनं तु पूर्वार्थ एवेत्येवं सिद्धर्षीयवृत्त्यादर्शविशेषेऽपि जमालेरनन्तभवस्वामित्वप्रदर्शनं चतुरन्तसंसारकान्तारदृष्टान्तत्वप्रदर्शनसदृशम् , सूत्रसंमतिस्तु , देवकिल्यिषिकत्वांश एवइत्ययमर्यो न्याय्योऽन्यो वा तत्र कश्चित्सुंदरोऽभिप्राय इति यथा बहुश्रुताः प्रतिपादयन्ति तथा प्रमाणीकर्तव्यं न तु कुविकल्पचक्रेण ग्रन्थकदर्थना कर्तव्या। - यत्तु वस्तुगत्त्या समयभाषया तिर्यग्योनिकशन्द एवानन्तभवा. भिधायको भवति / यदुक्तं " तिर्यग्योनीनां च" -इति तत्त्वार्थमूत्रभाष्यवृत्ती-"तिर्यग्योनयः पृथिव्यप्तेजोवायुवनस्पति द्वि For Private and Personal Use Only
SR No.020309
Book TitleDharmpariksha
Original Sutra AuthorN/A
AuthorYashovijay
Publisher
Publication Year
Total Pages276
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy