________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir संसारस्त्वनन्तस्तत्र भावविशेषाङ्गजनीयः, अध्यवसायविशेष प्रतीत्य संख्यातानन्तभेदभिन्नस्य तस्याहदायाशातनाकृतामप्यभिधानात् / तथा प महानिशीथसूत्रम् " जेणं तित्थकरादीणं महर्ति आसायणं कुजा, से गं अज्झवसायं पडुन जाव णं अणंतसंसारिअत्तणं लभिजत्ति"। इत्यंचोत्सूत्रभाषिणां नियमादनन्तः संसार इति नियमः परास्तः। किं च कालीदेवीप्रमुखाणां षष्ठाङ्गे “अंहाछंदा अहाछंदविहारिणीउति" पाठेन यथाच्छन्दत्वभणनादुत्सूत्रभाषित्वं सिद्धम् / ____ उस्सुत्तमायरंतो उस्सुत्तं चेव पण्णवेमाणो / ' एसो उ अहाछंदो इच्छाछंदुत्ति एगहा / " इत्यावश्यकनियुक्तिवचनात् तासां चैकावतारत्वं प्रसिद्धमिति मायं नियमो युक्तः। यतन्मार्गम.श्रितानामाभोगवतामनाभोगवतां नियमेनान्तसंसार, प्रतिसमयं तीर्थोच्छेदाभिप्रायेण साम्यात् / यथाछन्दस्तु क्वचिदंशेनाभोगादेशोस् सूत्रभाषी स्थात्, तयानाभोगोऽपि प्रायः सम्यगागम. स्वरूपापरिणतेः, न च तस्य तदुत्सूत्रभाषणमनन्तसंसारहेतुः, तीर्थोच्छेदाभिप्रायहेतुकल्यैव तत्यानन्तसंसारहेतुस्वादिति। तदसंबद्धम् , एतादृशनियनाभावाद / नगुन्मार्गमतिताः सर्वेऽपि तीर्थोच्छेदपरिणामवन्त एव, सरलपरिणामानामपि केषांचिद्दर्शनाद् / न च यथाछन्दादयोऽनाभोगादेवोत्सूत्रभाषिगः, जानतामपि तेषां बहूनां सुविहितसाधुसमाचारद्वेषदर्शनात्। ... यस्त्वाह-यथाछन्दत्वभवनहेतूनां पार्श्वस्थत्वभवनहेतूनामिव नानात्वेनागमे भणितत्वाद् यथाछन्दमात्रस्योत्सूत्रभाषित्वनियमोऽप्रमाणिकै(क?) इति / तदरमणीयम् , आगम एव यथाछन्दस्योत्सूत्रप्ररूपणाया नियतव्यवस्थाप्रदर्शनात् / ' 1 येन तीर्थकरादीनां महतीमाशातनां कुर्यात् ,स्याध्यवसायं प्रतीत्य याव दनन्तसंसारित्व लभेत // 2 यथाछन्दा यथाछन्दविहारिणी त्विति // 3 उत्सूत्रमाचरन् उत्सूत्रं चैवं प्रज्ञापयन् / एष तु यथाच्छन्ह इच्छाउन्द इत्येकाों / .. For Private and Personal Use Only