________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir तुल्लेवि तेण दोसै पक्खविसेसेण जा विसैमुत्ति। सा णिस्सियत्ति सु-तुत्तिपणं तं बिति मज्झत्था॥४॥ तुल्लेवित्ति / तेन-मध्यस्थस्य कुलादिपक्षपाताभावेन तुल्येऽप्युस्सूत्रभाषणादिके दोषे सति पक्षविशेषेण या विशेषोक्तिः-'स्वपक्षपतितस्य यथाछन्दस्यापरमार्गाश्रयणाभावान्न तथाविधदोषः, परपशपतितस्य तून्मार्गाश्रयणानियमेनानन्तसंसारित्वम्' इति,सा विशेषोक्तिनिश्रिता पक्षपातगर्भेति तां सूत्रोत्तीर्णामागमबाधितां अवते मध्यस्थाः। आगमे त्यविशेषेणैवान्यथावादिनामन्यथाकारिणां च महादोषः प्रदर्शितस्तत्कोऽयं विशेषो यत्परपक्षपतितस्यैवोत्सूत्रभाषिणोsनन्तसंसारित्वनियमो न तु स्वपक्षपतितस्य यथाछन्दारिति // 4 // . नन्वस्त्ययं विशेषो यत्परपक्षागतस्योत्सूत्रभाषिणो 'वयमेव जैना अन्ये तु जैनाभासाः' इत्येवं तीर्थोच्छेदाभिप्रायेण प्रवर्तमानस्य सन्मार्गनाशकत्वालियभेनान्तसंसारित्वम् , स्वपक्षगतस्य तु व्यवहारतो मार्गपतितस्य नायमभिप्रायः संभवति, तत्कारणस्य जैनप्रवचनप्रतिपक्षभूतापरमार्गस्याङ्गीकारस्याभावाद् इत्यत आहतित्थुच्छेओ व्व मओ सु-तुच्छेओवि हंदि उम्मग्गो। संसारो अ अणंतो भयणिजो तत्थ भाववसा // 5 // ____ तित्थुच्छेऔत्ति / तीर्थोच्छेद इव सूत्रोच्छेदोऽपि 'हंदि' इत्युपदर्शने उन्मार्ग एव मतः। तथा चोन्मार्गपतितानामुत्रसूत्रभाषणं यदि तीर्थोच्छेदाभिप्रायेणैवेति भवतो मतं तदोत्सूत्राचरणप्ररूपणप्रवणानां व्यवहारतो मार्गपतितानां यथाछन्दादीनामुत्सूत्रभाषणमपि सूत्रोच्छेदाभिप्रायेणैव स्या, विरुद्धमार्गाश्रणस्येव सूत्रविरुद्धाश्रयणस्यापि मार्गोच्छेदकारणस्याविशेषात् , तथा च द्वयोरप्युन्मार्गः समान एव / 4 तुल्येऽपि तेन दोषे पक्षविशेषेण या विशेषोक्तिः / सा निश्रितेति सूत्रोत्तीर्णा तां ब्रुवते मध्यस्थाः / / तीर्थोच्छेद इव मतः सूत्रोच्छेदोऽपि हंदि उन्मार्गः / संसारश्चानन्तो भजनीयस्तत्र भाववशाद् // 5 // For Private and Personal Use Only