________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir मूलं मध्यस्थत्वमेव जिनोक्तम् , अज्ञातविषये माध्यस्थादेव हि गलितकुतर्कग्रहाणां धर्मवादेन तत्वोपलम्भप्रसिद्धेः / ननु सदसद्विषयं माध्यस्थ्यं प्रतिकूलमेव / तदुक्तम्"सुनिश्चितं मत्सरिगो जनस्य न नाथमुद्रामतिशेरते ते.। माध्यस्थ्यमास्थाय परीक्षका ये मणौ च काचे च समानुबन्धाः" // इति कथं तद्भवद्भिः परीक्षानुकूलमुच्यते ? इति चेत् / सत्यम् , स्फुटातिशयशालिपरविप्रत्तिविषय पक्षद्वयान्यतरनिरिणानुकूलव्यापाराभावलक्षणस्य माध्यस्थ्यस्य परीक्षाप्रतिकूलत्वेऽपि वाभ्युपगमहानिभयप्रयोजकदृष्टिरागाभावलक्षणस्य तदनुकूलत्वात् // 2 // अथ मध्यस्थः कीदग्भवति ? इति तल्लक्षणमाह-- मज्झत्थोअअणिस्सियववहारीतस्स होइ गुणपक्सो णो कुलगगाइणिस्सा इय ववहारंमि सुपसिद्धं // 3: मध्यस्थश्चानिश्रितव्यवहारी स्यात्, उपलक्षणत्वादनुपश्रितव्याहारी च / तत्र निश्रा रागः, उपश्रा च द्वेष इति रागद्वेषरहितशारप्रसिद्ध भाव्यानाभाव्यसाधुत्वासाधुत्वादिपरीक्षारूपव्यवहारकारी त्यर्थः / अत एव तस्य मध्यस्थस्य गुणपक्षो ‘गुणा एवादरणीयाः' इत्यभ्युपगमो भवति, न तु कुलगणादिनिश्रा-निजकुलगणादिना तुल्यस्य सद्भूतदोषाच्छाइनयाऽसद्भूतगुणोद्धावनया च पक्षपातरूपा। तथा कुलगणादिना विसशस्यासद्भूतदोषोद्भावनया सद्भुतजुण:च्छादनयाऽपि चोपाऽपि न भवति इत्यपि द्रष्टव्यमित्येतद् व्यवहार ग्रन्थे सुप्रसिद्धम् , निश्रितोपश्रितव्यवहारकारिणः सूत्रे महाप्रायश्चित पदेशात् // 3 // ... इत्थं च मध्यस्थस्यानिश्रितव्यवहारित्वाद् यत्कस्यचिदभिनिषिटस पक्षपातवचनं तन्मध्यस्थैर्नाङ्गीकरणीयमित्याह मध्यस्थश्चानिश्रितव्यवहारी तस्य भवति गुणपक्षः / नो कुलगणादिनिश्रा इति व्यवहारे सुप्रसिद्धम् // 3 // * ' विषये ' इति कपुस्तके। For Private and Personal Use Only