________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir पणमियत्ति। प्रणम्य-प्रकर्षेण भक्तिश्रद्धाऽतिशयलक्षणेन नत्वा पार्वजिनेन्द्रम् , अनेन प्रारिप्सितप्रतिबन्धकदुरितनिरासार्थ शिष्टाघरपरिपालनार्थं च मङ्गलमाचरितम् / धर्मस्य धर्मत्वेनाभ्युपगतस्य, परीक्षाविधिम्-अयमित्थंभूतोऽनित्यंभूतो वेति विशेषनिर्धारणप्रकारं समक्ष्ये। प्रेक्षावत्प्रवृत्त्युपयोगिविषयाभिधामप्रतिज्ञेयम् / प्रयोजनादयस्तु सामर्थ्यगम्याः, धर्मप्रतिपादकस्यास्य ग्रन्थस्य धर्मशास्त्रप्रयोजनादिभिरेव प्रयोजनादिमत्त्वादिति / किंभूतं धर्मपरीक्षाविधिम् ? गुरुपरिपाटीशुद्धम्-अविच्छिन्नपूर्वाचार्यपरम्परावचनानुसरणपवित्रम् , तथाऽऽगमयुक्तिभ्यां-सिद्धान्ततर्काभ्यामविरुद्धमवाधितार्थम् / एतेनाभिनिवेश मूलकस्वकपोलकल्पनाशङ्का परिहृता भवति / इयं हि ज्ञानांशदुर्विदग्धानामैहिकार्थमात्रलुब्धानां महतेऽनर्थाय / यावानेव ह्यर्थः सुनिश्चिनस्तावानेवानेन निरूपणीयः, न तु कल्पनामात्रेण यत्तदसंबद्धप्रलापो विधेय इति मध्यस्थाः / अत एव चिरप्ररूढमप्यर्थ कल्पनादोषभोरवो माहत्य दूषयन्ति गीतार्थाः। तदुक्तं धर्मरत्नप्रकरणे जेच ण सुत्तेहिं विहियं णय पडिसिद्धं जणमि चिररूढं / समइविगप्पिअदोसा तंपि ण दूसंति गियत्था / सतच माध्यस्थमेव धर्मपरीक्षायां प्रधानं कारणमिति फलितम् // 1 // एतदेव आहसो धम्मो जो जीवं धारेइ भवण्णवे निवडमाणं। तस्स परिक्खामूलं मज्झत्थत्तं चिय जिणुत्तं // 2 // . सो धम्मोत्ति / यो भवार्णवे निपतन्तं जीवं क्षमादिगुणोपष्टम्भहालेन धारयति स धर्मो भगवत्प्रणीतः श्रुतचारित्रलक्षणस्तस्य परीक्षा 2 स धर्मो यो जीवं धारयति भवार्णवे निपतन्तम् / तस्य परीक्षामूलं मध्यस्थत्वमेव जिनोक्तम् / / 1 या न सूत्रैर्विहितं न च प्रतिषिद्धं जने चिररूढम् / स्थमतिविकस्पितदोषास्तदपि न दूषयन्ति गोतार्थाः // For Private and Personal Use Only