________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 148 किंच-सूत्रे द्योतकरचनारूपमति यावत्पदं दृश्यते / यथा स्कन्दकाधिकारे-" भावओ णं सिद्धे अणंता नाणपजवा अणंता दंसणपजवा जाव अणंता अगुरुअलहुअपज्जवा०” इत्यत्र नह्यत्र गणमध्यस्थस्यान्यस्यार्थपरामर्शी यावच्छब्देन कत्तुं शक्यते, यतो स गणस्तावदित्थमुपदर्शितः " भावओ णं जीवे अणंता नाणपज्जवा अणंता दंसणपजवा अणंता चरित्तपजवा अणंता गरुअलहुअपजवा अणंता अगरुअलहुअपजव ति” / तत्र ज्ञानदर्शनपर्यायाः सिद्धस्य साक्षादेवोक्ताः, चारित्रपर्यायाश्च तस्य न संभवन्ति " णो परभविए चरिते" इत्यत्र सिद्धानां चारित्रस्य व्यक्तमेव निषिद्धत्वाद् / गुरुलघुपर्यायाश्चौदारिकशरीराण्याश्रित्य व्याख्याता इति तेऽपि सिद्धस्य न संभवन्ति / अगुरुलघुपर्यायाश्च कार्मणादिद्रव्याणि जीवखरूपं चाश्रित्य व्याख्याताः, तत्र कार्मणादिद्रव्याश्रितास्ते सिद्धस्य न संभवन्ति, जीवस्वरूपं त्वाश्रित्य सर्वांशशुद्धास्ते संभवन्ति परं तेऽपि साक्षाच्छब्देनोक्ता इति यावच्छन्दवाच्यं नावशिष्यते इति ततो यथा तत्र वाक्यार्थद्योतक एव यावच्छब्दस्तद्वदिहापि स्यादिति किमनुपपन्नमिति निपुणधिया निभालनीयं प्रेक्षावद्भिः। किं च-'जाव चत्तारि पंच' इत्यादिसूत्रमपि नरकोपपातातिरिक्तविशेषाभावमादाय परिमितभवजमालिजातीयदेवकिल्बिषिकविषयं जमालिसादृश्यप्रदर्शनायोपन्यस्तं न तु देवकिल्बिषिकसामान्यविषयमिति संभाव्यते, अन्यथा " अत्थेगइआ अणादीयं अणवदग्गं दीहमद्धं चाउरंतं संसारकतारं अणुपरिअटुंति" इत्यग्रिमसूत्राभिधानानुपपत्तेः, ततो 'अत्थेगइआ' इत्यादिकमपरिमितभवाभिधायकं 'जा चत्तारि' इत्यादिकं च परिमितभवाभिधायकमिति युक्तम् , भवति हि सामान्याभिधानस्याप्येकविशेषप्रदर्शने तदितरविशेषपरत्वम्। यथा 'ब्राह्मणा भो- जयितव्याः' इति वचनस्य कौण्डिन्येतरयात्मणभोजनविधिपरत्वमिति / यत्तु 'अत्थेगइआ' इत्यादिसूत्रमभव्यविशेषमधिकृत्यावसातव्यं, तयञ्जकं तु अन्ते निर्वाणाभणनमेवेनि परेणोच्यते / तदसत्, अन्ते निर्वाणाभणनादीदृशसूत्राणामभव्यविशेषविषयत्वे-" असंबुज्झे णं अणगारे आउअवज्जाओ सत्तकम्मपगडीओ सिढिलबंधणबद्धाओ घणियबंधणबद्धाओ पकरेइ, हस्तकालठितिआओ दीहकालठितिआओ पकरेइ, मंदाणुभागाओ तिव्वा For Private and Personal Use Only