________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir कालनियमानुपपत्तिरिति व्यक्तैव सामान्यसूत्रादिव विशेषसूत्रादप्यनन्तभवसिद्धिरिति-चेत् , तदिदमसिद्धमसिद्धेन साधयतो महातार्कि कत्वमायुष्मतः। यतो 'जाव चत्तारि' इत्यादावपि शमन्तचतुःपञ्चपदसमानाधिकरणभवग्रहणपदोत्तरद्वितीयाविभक्तरेव "कालावनोाप्तौ" [सिद्ध 0.2.2-42] इत्यनुशासनात्कालनियमसिद्धौ न पुनस्तदभिधानाय यावच्छब्दप्रयोगः, अर्थपुनरुक्ततयोः प्रसङ्गात् , तस्मात्तदनुरोधेन तावच्छब्दस्य विशेषसूत्रे यावत्तावच्छब्दयोश्चाध्याहारकल्पनाऽतिजघन्यैवेति। नन्वेवं " स्थितेर्गतिश्चिन्तनीया” इति यावच्छब्दस्य सूत्रस्थस्य कोऽर्थः ? इति चेत् , ततो देवलोकादायुःक्षयादिना च्युत्वेति पूर्वप्रक्रान्तपदसमुदायार्थ एवेत्यवेहि / अथैवं गणसंबन्ध्याद्यन्तपदविशिष्टस्यैव यावच्छब्दस्य पूर्वप्रक्रान्तगणवाक्यार्थवाचकत्वमिति व्युत्पत्तिभङ्ग इति चेत् , न / तादृशनियमे प्रमाणाभावात् , पूर्वप्रक्रान्तवाक्यार्थवाचकत्वे यावच्छब्दस्य स्वसंबन्धिपदोपसंदानमात्रस्य ग्राहकत्वेनापेक्षितत्वाद् / अत एव कचिद्गणसंबन्ध्याद्यन्तपदविशिष्टादिव कचिदन्त्यपदविशिष्टादपि यावच्छब्दात्तदुपस्थितिः / तथाहि एगंतपांडए णं मणुस्से कि मेरइआउं पकरेइ 4 ? पुच्छा / गोअमा ! एगंतपंडिए णं मणुस्से आउअंसिअ पकरेइ, सिअ णो पकरेइ / जइ पकरेइ णो णेरइआउअं पकरेइ, णो तिरिगो मणु (स्से ), देवाअं पकरेइ / णो णेरइआज्थं किच्चा परइएसु उववञ्जइ णो तिरिणो मणुस्से, देवाउअं किच्चा देवेसु उववजइ / से केणद्वेणं जाव देवाउअं किच्चा देवेसु उववजइ ? / गोअमा / एगंतपंडिअस्स णं . मणुस्सस्स केवलमेव दो गतीओ पण्णत्ताओ, अंतकिरिया चेव कप्योववत्तिया देव, से तेण?णं गोअमा ! जाव देवाउअं किच्चा देवेसु उववजइत्ति // " अत्र हि यावच्छब्दस्य न गणसंबन्ध्यावन्त्यपदविशिष्टतयैव पूर्व प्रकान्तवाक्यार्थवाचकत्वं किन्तु स्वसंबन्ध्यन्त्यपदोपसंदानादेव, तद्वदिहापि चत्वारि पंचेत्यादिस्वसंवन्धिपदोपसंदानाद् यावच्छन्दस्य पूर्वप्रफ्रान्तवाक्यार्थवाचकत्वे न किंचिद् बाधकामति युक्तं पश्यामः / For Private and Personal Use Only