________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir पूर्तिः स्याद् इत्यादि कापि परकल्पना दूरमपास्ता वेदितव्या / 'पश. कृत्वः' इत्यस्य तिर्यक्शब्देनैव योजनाया असंभवात् , द्वन्द्वसमासमदिया प्रत्येकमेव तदन्वयाद् भवग्रहणव्यक्त्यपेक्षस्य पश्चवारत्वस्थानन्तवारग्रहणेषु जात्यपेक्षसंकोचन समर्थयितुमशक्यत्वात् , तादृशशा. म्दयोधस्याकाङ्खां विनाऽनुपपत्तेः। नोकत्रानन्तवारभवग्रहणाभ्युपगमेऽप्येकवारभमणमेव वक्तुं युक्तम् , स्थानभेदेन तत्स्थानावच्छिन्नाधि. कृतक्रियाजन्यव्यापारोपहितकाललक्षणवारभेदादू ; विजातीयस्थानग. मनान्तरिततजातीयस्थानावच्छिन्नभ्रमणक्रियाजन्यभवग्रहणव्यापारोप हितायावान् कालस्तावत एकवारत्वाभ्युपगमे च "तिर्यश्वनन्तवारं भ्रान्तः" इति वदत एव व्याघातः / किंच एवं "बहवो जीवा नित्यनिगादेवनन्तवारं जन्ममरणानि कुर्वन्ति " इत्यायखिलप्रवचनविलोपप्रसङ्ग इति न किंचिद किंच-'च्युत्वा ततः पञ्चकृत्वः' इत्यादिश्लोकैकवाक्यतया हि 'पत्तारि पंच' इत्यादिभगवतीसूत्रं त्वया व्याख्यातुमिष्टम् , तथा च तत्र विजातीयभवान्तरिततया तिर्यक्षु पश्चवारमेवानन्तभवग्रहणसि. द्धिरिति सर्वेषामपि प्रत्यनीकामीदृशमेव संसारपरिभ्रमणं सिध्पेत् नत्वनन्तान्यान्यभवान्तरितभवषहुलम् ; यतो " देवकिन्निसिया णं ते ताओ देवलोगाओ आउक्खएणं भवक्खएणं ठिइक्खएणं अणंतरं चयं चत्ता कहिं गच्छिति ? कहिं उववजिति ? गोयमा ! जाव चत्तारि पंच णेरइय-तिरिक्खजोणिय-मणुस्स-देवभवग्गहणाई संसारं अणुपरिअट्टित्ता तो पच्छा सिझंति, जाव अंतं करंति"त्ति त्वया सामान्यसूत्रमङ्गीक्रियते ततश्चोक्तस्य चत्तारि पंच' इत्यादिविशेषसूत्रस्य नारकगतिप्रतिषेधमानेणैव विशेषोऽभ्युपगम्यते नत्वधिकः कश्चिदपीति। अथास्त्वन्यत्र यथा तथा भगवत्यपेक्षया तुजमालेरनन्ता एवं भवा लभ्यन्ते, यतो यावच्छन्दः सामान्यसूत्रेऽस्ति, तस्य च प्रयोगः 1 देवकिल्बिषिकास्ते तस्मादेवलोकादायुःक्षयेण भवभयेण स्थितिक्षयेण अनन्तरं चयं व्युत्वा क.गमिष्यति ? + उत्पत्स्यते ? गौतम् ! यावचत्वारि पक्ष नैरयिकतियंग्योनिक-मनुष्य-देवभवग्रहणामि संसारमनुपर्यव्य ततः पश्चात्सेत्स्यति, यावदन्तं करिष्यतीति। For Private and Personal Use Only