________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 144 पाच्यम् , विभक्त्यन्तमन्तरेण शसन्तचतुाशब्दनिष्पन्नस्य चत्तारि' इति शब्दस्य सर्वथाऽसिद्धेः / नाप्यत्रालुप्समोसोऽस्तीति, एतेन चतसुषु पश्चसु च जातिषु तिर्यग्मनुजदेवभवग्रहणानीति भणनादनन्तमवसिद्धिरित्यायपास्तम्, 'चत्तारि' इत्पत्र द्वितीयाबहुवचने सप्तमीबहुवयनार्थत्वस्य 'पञ्च' इत्यनन्तरससमीबहुवचनलोपस्य समुचयार्थकचकाराध्याहारस्य च प्रसङ्गात् / किश्-चतुःपञ्चशब्दयोः संख्यावाचकयोयेक्तिवचनत्वेन कुतस्ताभ्यां जातिरुपस्थितिरिति विभावनीयम् / यदि च जमालेरनन्ता संसारः सूत्रे वक्तव्योऽभविष्यत् तदा "तिरिय-मणुस्सदेवेसु अणंताई भवग्गहणाई संसारमणुपरिअट्टित्ता तओ पच्छी सिन्झिस्सह' इत्यादि / अथवा " हा गोसाले मंखलिपुत्ते तहेव णेरइअवजं संसारमणुपरिअट्टिता तओ पच्छा सिज्झिस्संइ" इत्यादि भणनीयमभविष्यद् / अन्यथा नवसु जातिषु भवग्रहणेन भ्रमणादपि कुत आनन्त्यलाभः ? नवभिरपि चारेः तत्पूर्तिसंभवात्, प्रतिव्यक्तिभ्रमणं नाक्षरबलाल्लभ्यते बाधितं च / सर्वतिर्यग्देवमनुजेषु स्वेच्छामात्रेण नियतानन्ततिर्यग्योनिकभयग्रहणाश्रयणे च किं सूत्रावलम्बनव्यपदेशेन ? स्वकल्पनाया महत्स्वाध्यारोपस्य महदाशातनारूपत्वात् / एतेन " घ्युत्वा ततः पञ्चकृत्वो प्रान्त्वा तिर्यग्नृनाकिषु / अवाप्तबोधिनिर्वाणं जमालिः समबाप्स्यति ॥"इति हैमवीरचरित्रीयश्लोके पश्चकृत्वशब्दः पञ्चधाराभिधायकः, स च तिर्यक्शब्देन योजितः सन् जमालिस्तिर्यग्योनो पञ्चवारान् यास्य. तीत्यर्थाभिधायकः संपन्न, तथा च तिर्यग्योनौ वारपूर्तिमनुजादि गत्यन्तरभवान्तरमाप्तिमन्तरेण न भवति, सा च प्राप्तिराशातनाबहुलस्य जमालेरनन्तकालान्तरितैव स्याद् , एवं पञ्चवारगमनेऽनन्तभवग्रहणमनन्तगुणमपि संभवति / मनुजगतिवारपूर्तिस्तूत्कर्षतोऽपि सप्ताष्टभवे. रैव स्याद् / देवनारकयोस्त्वनन्तरं पुनरुत्पादाभावेनैकेनैव भवेन वार 1 तिर्यग्मनुष्यदेवेषु अनन्तानि भवग्रहणानि संसारमनुपर्यट्य ततः पश्चात्सेरस्यति // 2 यथा गोशालो मखलिपुत्रस्तथैव नैरविकर्ज संसारमनुपर्यश तमः पश्चात्सेत्स्यति // For Private and Personal Use Only