________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir संसारकान्तारं विविधशारीरमानसानेकदुःखविटपिशतसहसदुस्तरं भवग़हनं अणुपरिअर्टिसुत्ति अनुपरावृत्तवन्त आसन् / इह द्वादशाङ्गं सूत्रार्थोभयभेदेन त्रिविध, द्वादशाङ्गमेवाज्ञा आज्ञाप्यते जन्तुगणो हितप्रवृत्ती यया साऽऽझेति व्युत्पत्तेः, ततः मा त्रिधा, तद्यथा-सूत्राज्ञा अर्थाज्ञा तदुभयाज्ञा / संप्रत्यमूपामाज्ञानां विराधनाश्चिन्त्यते यदाभिनिवेशतोऽन्यथा सूत्रं पठति तदा सूत्राज्ञाविराधना / सा च यथा जमालिप्रभृतिना यदाभिनिवेशवशतोऽन्यथा द्वादशाङ्गार्थ प्ररूपयति तदा ज्ञाविराधना; सा च गोष्ठामाहिलादीनामिवावसातच्या / यदा पुनराभिनिवेशवशतः श्रद्धाविहीनतया हास्यादितो वा द्वादशाङ्गस्य सूत्रमर्थ च विकुट्टयति तदोभयाज्ञाविराधना; सा च दीर्घसंसारिणामसच्यादी)नामनेकधा विज्ञेयेति / तथाभिनिवेशतोऽन्यथा पाठादिलक्षणया विराधनया विराध्यातीते कालेऽनन्ता जीवाश्चातुरन्तसंसारं नारकतिर्यनरामरविविधवृक्षजालदुस्तरं भवावटवीगहनर्मित्यर्थः अनुपरावृत्तान्त असन् जमालिवद् / अर्थाज्ञायाः पुनरभिनिवेशतोऽन्यथा प्ररूपणादिलक्षणया विराधनया गोष्ठामाहिलवदिति तु हारिभधामेतद्धृतावुक्तमिति / / " तस्मादुपलक्षणव्याख्यान एव यथोक्तदृष्टान्तोपपत्तिरिति सातव्यम् / यतु आशातनावहुलानां नियमेनानन्तसंसारो भवतीति ज्ञापनां थेमेवेदं जमालिदृष्टान्तोपदशेनं, चातुरन्तशब्दस्तु संसारविशेषणत्वेन संसारस्वरूपाभिधायको न पुनः सर्वेषामप्याशातनाकारिणां गतिचतुटयाभिधायकः; नहि गतिचतुष्टयगमनमेवानन्तसंसारित्वाभिव्यञ्चक, अन्वयव्यतिरेकाभ्यां व्यभिचारात् , तस्माद् गत्यादीनां प्रति प्राणिनं भिन्नत्वान्न तौल्यमिति परेणात्र समाधानं क्रियते, तदसंबद्धवाग्वादमात्रम् / चतुरन्तशब्दार्थस्य संसारविशेषणत्वे चतुरन्तसंसारपरिभ्रमणस्य विशिष्टसाध्यस्य पर्यवसानात् चतुरन्तान्वितसंसारस्य भ्रमणेऽन्वयात् , तथा च दृष्टान्ते जमालौ साध्यवैकल्पदोषानुद्धारात् / नहि विशिष्टे साध्ये विशेष्यांशसभाषमात्रेण दृष्टान्ते साध्यबैकल्यदोष उद्धर्तुं शक्यते / अनभिज्ञस्याहचैत्यानगारशब्दाभ्यामेकस्यैवार्थस्य योधनमित्यभ्युपगमे च प्रेक्षावतामुपहासपात्रत्वापत्तिः। गत्यादीनां पर यथा प्रति प्राणिनं भिन्नत्वं तथा संसारस्याप्यध्यवसायविशेषाद् भिसत्वं किं नेष्यते ? " उम्मगमग्गसंपडियाणं " इत्यादिनोत्सूत्रभाषिणां नियमावनन्तससारसिद्धौ च For Private and Personal Use Only