________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir नन्तसंसारहेतुः' इत्यवस्थितपाठत्यागेनैव तदृष्टान्ताध्याहारसंभवात् तस्मादूक्तोपलक्षणव्याख्यानरीत्यैव प्रकृतोपनयसमर्थन न्याय्यम् / ई. दृशोत्सूत्रवचने स्वरूपतोऽनन्तसंसारहेतुत्ववचने चरमशरीरिक्रियमा. जारम्मेऽपि खरूपतो नरकहेतुत्ववचनवत् प्रक्रिया विरोधादिति सम्पविभावनीयम् / इत्थं च "आयरिअपरंपरएण आगयं जो उ आणुपुवीए / कोवेइ छोयवाई जमालिणासं व णासीहि // " " श्राचार्याः श्रीसुधर्मस्वामि-जंबूनाम-प्रभवार्यरक्षिताधास्तेषां परम्परा-प्रणालिका पारम्पर्य तेनागतं यद्वयाख्यानं सूत्राभिप्रायस्तद्यथा-व्यवहारनयाभिप्रायेण क्रियमाणमपि कृतं भवति / यस्तु कुतर्कदध्मातमनसा मिथ्यात्वोपहतष्टितया छेकबुद्ध्या-निपुणवुल्या 'कु. शाग्रीयशेमुषीकोऽहम्' इति कृत्वा कोपयति दूषयति-अन्यथा तमर्थ सर्वज्ञप्रणीतमपि व्याचष्टे 'कृतम्' इत्येवं ब्रूयाद्-वक्ति वचनम् / नाहि मृत्पिण्डक्रियाकाल एव घटो निष्पद्यते, कर्मगुणव्यपदेशानामनुपलब्धेः, स एवं छेकवादी-निपुणोऽहम्' इत्येवंवादी पण्डिताभिमानी जमालिनाशं-जमालिनिहववत्सर्वज्ञमतविगोपको विनङ्क्षयति-अरघघटीयन्त्रन्यायेन संसारचक्रवालं बंभ्रमिष्यति" इत्यादि सूत्रकृताङ्गयथातथ्याध्ययननियुक्तिवृत्तिवचनमात्रमवलम्ब्य ये जमालेररघघटीयन्त्रन्यायेन संसारचक्रवालभ्रमणे साध्ये दृष्टान्ततयोपदर्शितत्वाद् दृष्टान्तस्य च निश्चितसाध्यधर्मवत्त्वात् तस्यानन्तसंसारित्वसिद्धिरिति पदन्ति ते पर्यनुयोज्याः। नन्वयमपि दृष्टान्तः प्रागुक्तमरीचिदृष्टान्तवदुपलक्षणपर एवेत्यरघघटीयन्त्रन्यायोपलक्षितसंसारचक्रवाल परिभ्रमणसाध्येनायुक्त इति कथमस्माद्भवतामिष्टसिद्धिः ? अन्यथाऽरघघटीयन्त्रन्यायोऽत्र प्रकरणमहिम्ना पुनः पुनश्चतुर्गतिभ्रमणपर्यवसित इति चतुर्गतिभ्रमणमपि जमालेरनेन न्यायेन सिध्येत् / ___ यत्तु यस्यैकेन्द्रियादिषु पुनः पुनरुत्पादे द्राधीयसी संसारस्थितिस्तमुद्दिश्यैवायं न्यायः प्रवर्तते आचार्यपारम्पर्येणागतं यस्तु आनुपूर्ध्या / कोपयति ध्छेकवादी जमालिनाशमिष नश्यति / For Private and Personal Use Only