________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir Ah इत्यादावनन्तशब्दसमानाधिकरणस्य दुरन्तशब्दस्य दर्शनाद दुरन्तानन्तवचनस्यातिशयितानन्तवाचकत्वेन विरोधाभावाद् / इत्थं सति विपरीतप्ररूपणाया दुरन्तानन्तसंसारकारणत्वे मरीचिदृष्टान्तोपन्यासस्य साक्षात्तस्यासंख्यातभववाचकप्रमाणविरोधेनानुपपत्तिस्तु तस्या दुरन्तानन्तसंसारकारणत्वोपलक्षितायुक्ततरत्वोपनयनाभिप्रायेण निरसनीया। यत्तु श्रावकस्य विपरीतप्ररूपणाया अत्र प्रकृतत्वात्तस्य चानाभोगाद् गुरुनियोगाद्वा तत्संभवात्तथाविधक्लिष्टपरिणामाभावान्नासावनन्तसंसारहंतुः, अत एव श्रावकप्रतिक्रमणसूत्रस्य वृत्तौ केवलं दुरन्तशब्दस्यैवाभिधानम् / या च विपरीतप्ररूपणा मार्गपतितानामनन्तसंसारहेतुः सा सभाप्रयन्धेन धर्मदेशनाधिकारिणां बहुश्रुतत्वेन लोकपूज्यानामाचार्यादीनां कुतश्चिन्निमित्तानिजलज्जादिहानिभयेन, सावद्याचार्यादीनामिव परविषयकमात्सर्येण, गोष्ठामाहिलादीनामिव तीर्थकदूचनस्याश्रद्धाने, जमाल्यादीनामिवाभोगपूर्विकाऽवसातव्या / ते चेहाधिकाराभावेनानुक्ता अप्पनन्तसंसारित्वेन खत एव भाव्या / येन कारणेन कस्यचिदनाभोगमूलकमप्युत्मत्रं कुदर्शनप्रवृतिहेतुत्वेन दीर्घसंसारहेतुरपि भवति, तेन दुरन्तसंसारमधिकृत्य मरीचिरिष दृष्टान्ततया दर्शितंः / तस्य च तथाभूतमप्युत्सूत्रं तथैव संजातम् , श्रीआयश्यकचूर्णावपि तथैवोक्तत्वात् ; अन्यथा द्विवादिभवभाविमुक्तीनामपि मुनिप्रभृतीनामनन्तसंसारित्ववक्तव्यताऽऽपत्तौ जैनप्रक्रियाया मूलत एवोच्छेदः स्यादित्यादि परेणोक्तं तदसत् / श्रापकस्यापि " जणस्स धम्म परिकहेइ "त्ति वचनाद् गुरूपदेशायत्ततया धर्मकथनाधिकारित्वश्रवणात्कर्मपरिणतिवैचित्र्येण तस्यापि गुरूपदेशायत्ततां परित्यज्य कथंचिस्सावद्याचार्यादीनामिव विपरीतप्ररूपणासंभवात् तस्याश्च स्वरूपतोऽनन्तसंसारकारणत्वात् तत्प्रतिक्रमणार्थमिहेत्थमुपनिषन्धाद / न चान्यत्र दुरन्ताभिधानमनन्तत्वप्रतिक्षेपकम् , दुरन्तत्वस्यानन्तत्वाविरोधित्वाद् / अनन्तसंसाराधिकाराभावादिह दृष्टान्तानुक्तिरिति तु प्रकृतग्रन्थस्य खण्डनं न तु मण्डनम् / सा चायुक्ततरा, 'दुरन्ता१ जनस्य धर्म परिकथयति। For Private and Personal Use Only