________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir सुरधुअगुणोवि तिस्थंकरोवि तिहुजणअनुल्लमल्लोवि / भावाईहि वि बहुसो कपस्थिओ तिजयपह तंसिस्थी / / 2 / / गोभणभूणंतगावि केई इह दढपहाराई / बहुपाया वि य सिद्धा, सिद्धा किर तंमि चेव भवे // 3 // त्ति / तथोपदेशरत्नाकरेऽपि प्रोक्तम् तथा केषांचिद्देशना पुनः प्रस्तावौचित्यादिसर्वगुणसुभगा परं केवलेनोत्सूत्रप्ररूपणदूषणेन कलिता, साऽपि पुरनिर्द्धमनतुल्या, अमेध्यलेशेन निर्मलजलमिवोत्सूत्रलेशप्ररूपणेनापि सर्वेऽपि गुणा यतो दूषणतामिव भजन्ति, तस्य विषमविपाकत्वाद् / यदागम:-" दुब्भासिएण इक्कण" इत्यादि / तथा तत्रैव प्रदेशान्तरे प्रोक्तम्-" केचिद् गुरव आलंबनं विनैव सततं बहुतरप्रमादसेवितया कुचारित्रिणः देशनायामप्यचातुर्यभृतश्च, यथा तथाविधाः पार्श्वस्थादयः, यथा वा मरीचिः "कविला इत्थंपि इहयंपि" इत्यादिदेशनाकृद् / देशनाचातुर्य चोत्सूत्रपरीहारेण सम्यक् सभाप्रस्तावौचित्यादिगुणवत्त्वेन च ज्ञेयम्" इत्यादि / ___यत्तु कश्चिदाह-उत्सूत्रलेशवचनसामर्थ्यादेव प्रतीयते मरीचेर्यचनं न केवलमुत्सूत्रं किन्तूत्सूत्रभिश्रमिति। तन्न, एवं सति "जो चेव भावलेसो सो चेव भगवओ. बहुमओ"त्ति पश्चाशकवचनाद् य एव मावलेशो भगवद्धहुमानरूपो द्रव्यस्तवाद् भवति स भगवतो मुख्यवृत्त्याऽनुमत इत्यर्थप्रतीतौ तत्र भावलेशस्याभावमिश्रितस्य भगवहुमतत्वापत्ते; तस्माल्लेशपदमपकर्षाभिधायकं न तु मिश्रितत्वाभिधायकमिति मन्तव्यम् / स्यादयमभिप्राय:-धर्मस्थापिः ह्यशुभानुबन्धादिति आहे. " धम्मोवि सबलओ होइ” इत्यादिना शास्त्रे शबलत्वमुच्यते, शबलत्वं च मिश्रत्वमेव मरीचिवचनस्यापि कुदर्शनप्रवृत्त्याऽशुभानुबन्धान्मिश्रत्वमविरूदम् , कुदर्शनप्रवृत्तेरेव तस्य संसारवृद्धिहेतुल्वेनावश्यकचूर्णावुक्तत्वा. दिति / सोऽयं दुरभिप्रायः, यतः इत्थं सति फलत एवेदमुत्सूत्रं स्याद् न तु स्वरूपतः, उच्यते स्वरूपतोऽपीदमुत्सूत्रत्वादेव च संसारहेतुरिति 1 यश्चैव भावलशः स एवं. भगवतो बहुमत इति / 2 धोऽपि शबलो भवति / For Private and Personal Use Only