SearchBrowseAboutContactDonate
Page Preview
Page 139
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir नन्वेव मिथ्याशा गुणानुमोदनेनं परपाखण्डिप्रशंसालक्षणः स. म्यक्त्वातिचारः स्यादित्याशङ्का परिहर्जुमाहपरपाखंडपसंसा इहई खलु कोवि णेवमइआरो। सो तम्मयगुणमोहा अणवत्थाओ व होज्जाहि 42 ___ पर पाखंडपसंसत्ति / एवमुक्तप्रकारेण इह मार्गानुसारिगुणानुमादने परपाखण्डिप्रशंसाऽतिचारः कोऽपि न स्यात् / यतः स परपाखण्डिप्रशंसातिधारस्तन्मताः परपाखण्डिमात्रसंमता ये गुणा अग्निहोत्रपञ्चाग्निसाधनकष्टादयस्तेषु मोहोऽज्ञानं तत्त्वतो जिनप्रणीततुल्यत्वादिमि. थ्याज्ञानलक्षणं ततो भवेत् , 'परपाखण्डिनः परदर्शनिनः प्रशंसा' इत्यत्र व्युत्पत्तापर्थात् पाखण्डताऽवच्छेदकधर्मप्रशंसाया एवातिचारलाभाद् / यथा हि 'प्रमादिनो न प्रशंसनीयाः' इत्यत्र प्रमादिनां प्र. मादितावच्छेदकधर्मेणाप्रशंसनीयत्वं लभ्यते न त्वविरतसम्यग्दृष्ट्यादीनां सम्यक्त्वादिनापि, 'तथा पाखण्डिनो न प्रशंसनीयाः' इत्यत्रापि पाखण्डिनां पाखण्डतावच्छेदकधर्मेणवाप्रशंसनीयत्वं लभ्यते न तु मार्गानुसारिणां क्षमादिगुणेनापि। अभिनिवेशविशिष्टक्षमादिगुणानामपि पाखण्डतावच्छेदकत्वमेवेति तदपेण प्रशंसायामप्यतिचार एव। अत एवोग्रकष्टकारिणामप्याज्ञोल्लङ्घनप्रवृत्तीनां दोषावहत्त्वमुक्तं-- तेसि बहुमाणेणं उन्मग्गमोअणा अणिडफला / तम्हा तित्थयराणाठिएसु जुत्तोत्थ बहुमाणो ॥इत्यादिना श्रीहरिभद्रसूरिभिः / वा अथवा, अनवस्थया मार्गभ्रंशलक्षणयाऽतिचारो भवेद् / मुग्धपर्षदि क्षमादिगुणमादायापि मिथ्यादृष्टिप्रशंसायां परदर्शनिभक्तत्वप्रसङ्गादेकैकासमञ्जसाचाराद्, एवं मार्गोच्छेदापत्तेः / अत एवाभिमुखमुग्धपर्षद्गतस्य परपाखण्डि परपारखण्डप्रशंसा इह खलु कोऽपि नैवमतिचारः / स तन्मतगुणमोहाद् अनवस्थया वा भवेद् // 42 // तेषां यहुमानेनोन्मार्गमादनाऽनिष्टफला / तस्मात्तीर्थकराशास्थितेषु युक्तोऽत्र बहुमानः / For Private and Personal Use Only
SR No.020309
Book TitleDharmpariksha
Original Sutra AuthorN/A
AuthorYashovijay
Publisher
Publication Year
Total Pages276
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy