________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 127 तदुक्तम् " गुंणठाणगपरिगामे संत तह बुद्धिमंपि पाएण / जायइ जीवो तप्फलमवेक्खमन्ने उ णियमत्ति // ". सुगविशेषस्य जीवदयादिरूपस्यात्मनि परिणामे सति, तथेति समुच्चये बुद्धिमानपि युक्तायुक्तविवेचनशेमुषीपरिगतोऽपि न केवलधर्मसारः सदा भवति प्रा. येण बाहल्येन जायते जीवः / महतामध्यनाभोगसंभवेन कदाचित्कृत्येष्वबुद्धिमत्त्वमपि कस्यचिस्यादिति प्रायोग्रहणम् / अत्रैव मतान्तरमाह-तत्कलं बुद्धिमत्वकलं स्वर्गापवर्गादिप्राप्तिलक्षणमपेक्ष्यान्ये पुनराचार्या नियमोऽवश्यंभावो बुद्धिमावस्य अनाभागेऽपि गुगथानपरिणती सत्यामिति ब्रुवते / अयमभिप्रायः-सपननिर्बणव्रतपरिगामाः प्राणिनो जिनभणितमिदमिति श्रद्दधानाः कचिदर्थेऽनाभोगबहुलतया प्रज्ञापकदोपाद् वितयश्रद्धानवन्तोऽपि न सन्यक्त्वादिगुणम भाजो जायन्ते / यथोक्तम्. "संम्मद्दट्ठी जीवो उवइ8 पवयणं तु सद्दहइ / सइइइ असब्भावं अयाणमाणो गुरुणिओगा // " .. * बुद्धिमत्त्वे सति व्रतपरिणामफलमविकलमुपलभन्त एवेति / यथा च सम्यग्दृष्टयादिगुणस्थानावान्तरपरिणतितारतम्येऽपि बुद्धिमस्वसामान्यफलाभेदस्तथा मार्गानुसारिणां मिथ्याशां मिथ्यात्वगुणस्थानावान्तरपरिणतितारतम्येऽपि / अत एवापुनबन्धकादीनामादित. एवारम्यानाभोगतोऽपि सदन्धन्यायेन मार्गगमनमेवेत्युपदिशन्त्यध्यात्मचिन्तकाः / यत्तु मिथ्यादृशां सकामनिर्जरासंभवे सम्यग्दृष्टिमिथ्यादृष्टयोरविशेषप्रसङ्ग इति केनचिदुच्यते, तदसत् / एवं सति मिथ्याहष्टयादीनां सयोगिकेवलिपर्यन्तानां शुक्ललेश्यावत्त्वेनाविशेषप्रसङ्गात् / अवान्तरविशेषान्न तदविशेष इति चेत् / सोऽयं प्रकृतेऽपि तुल्यः, सम्यग्दृष्टिनिर्जराऽपेक्षया मिथ्यादृष्टिनिर्जराया अल्पत्वस्याभ्युपगमादिति यथाशास्त्र भावनीयम् // 41 // गुणस्थानकपरिणामे सति तथा बुद्धिमानाप प्रायेण / जायत जीवस्तत्फलमपेक्ष्यान्ये तु नियम इति // सम्यग्दृष्टिर्जीव उपदिष्टं प्रवचनं तु श्रद्दधाति / थधात्यसद्भावमजानन् गुरुनियोगात् // For Private and Personal Use Only