SearchBrowseAboutContactDonate
Page Preview
Page 137
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir मेएसि य दीसइ" / इत्यादि महानिशीथचतुर्थाध्ययनवचनाद् अकामनिर्जदाजन्यात्कर्मक्षया बालतपोजन्यस्य तस्य भूयस्त्वसिद्धेः। " अणुकंपकामणिजरवालतरे दागविगयविमंगे।" इत्यादौ सम्यक्त्वप्राप्तिहेतुषु " मेहव्ययअगुव्यएहि य बालतवाकामणिजराए य / देवाउअंणिबंधई सम्मदिट्टी य जो जीवो ॥"इत्यादौ देवायुः कारणेषु च भेदेनाभिधानादकामनिर्जरा-बालतपसो भेदो यः प्रोच्यते स स्वरूपभेदं निजनिजफलभेदं चापेक्ष्यबालतपः सर्वमेवाकामनिराङ्गभिाते परस्य भान्ति निरासाय / तत्त्वतस्तु यदुचितानुष्ठानं तन्नाकामनिर्जराङ्गम् , यच्चानुचितानुष्ठानं तन्निर्वाणानङ्गत्वात्फलतो बालतपो वोच्यतामकामनिर्जराङ्गं वा नात्र, कश्चिद्विशेष इति युक्तं पश्यामः // किंच-मिथ्यादृष्टीनामपि मार्गसाधनयोगा गुणस्थानकत्वाभ्युपगमादेव हरिभद्राचार्यैः प्रदर्शिताः, तथा च तेषामपि सकामनिर्जरायां न बाधकम् , गुणलक्षणायास्तस्याः कुशलमूलत्वात् / तदुक्तं तत्त्वार्थभाष्ये नवमाध्याये-" निर्जरा वेदना विपाक इत्यनान्तरम् / स द्विविधोऽबुद्धिपूर्वः कुशलमूलश्च / तत्र नरकादिषु कर्मफलविपाको योऽबुद्धिपूर्वकप्तमवद्यतो ऽनुचिन्तयेद् अकुशलानुवन्ध इति / तप परिपहजयकृतः कुशलमूलस्तं गुणतोऽनुचिन्तयेत्-शुभानुवन्धो निरनुबन्धो वेति / एवमनुचिन्तयन् कर्मनिर्जरगायैव घटते // " अत्र ह्यकुशलानुबन्धो विपाक इत्यकामनिर्जरायाः कुशलमूलश्च सकामनिर्जरायाः संज्ञान्तरमेवेति / अथ मिथ्यादृष्टेवुद्धिरवुद्धिरेवेति न बुद्धिपूर्विका निर्जरेति चेद् / न, मार्गानुसारिण्या बुद्धेरबुद्धित्वेनापह्रोतुमशक्यत्वाद् ; अन्यथा माषतुषादीनामण्यकामनिर्जरा प्रसङ्गात् , तेषां निर्जराया अवुद्धिपूर्वकत्वात्फलतो बुद्धिसद्भावस्य चोभयत्राविशेषाद् / उचितगुणस्थानपरिणतिसत्त्वे फलतो बुद्धिमत्त्वमषाधितमेवेति / मेतेषां च दृश्यते / 1 अनुकम्पाऽकामनिर्जराबालतपो दानविनयविभङ्गाः / 2. .. महाव्रताणुव्रतैश्च बालतपोऽकामनिर्जराभ्यां च / ........ देवायुर्निबध्नाति सम्यगदृष्टिश्च यो जीवः // .. For Private and Personal Use Only
SR No.020309
Book TitleDharmpariksha
Original Sutra AuthorN/A
AuthorYashovijay
Publisher
Publication Year
Total Pages276
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy