SearchBrowseAboutContactDonate
Page Preview
Page 136
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir . न चात्रापि तपसः सकामनिर्जरारूपत्वप्रतिपादनाद् मिथ्यादृशां च तदभावान्न सकामनिर्जरेति वाच्यम् , मिथ्यादृशामपि मार्गानुसारिणां'तपश्चान्द्रायणं कृच्छ्रम्' इत्यादिना तपसः प्रतिपादनात् / किं चमार्गानुसार्यनुष्ठानमात्रमेव सकामनिर्जरायां बीजम् , अविरतसम्यग्दृष्टयनुरोधात् न तु तपोमात्रमेवेति न काप्यनुपपत्तिः / अत एव स्फुट मोक्षाभिलाषसत्त्वेऽपि मिथ्यादृशांप्रबलासद्ग्रहदोषवतांतदभाववतामादिधार्मिकाणामिव फलतो न सकामनिर्जरा, मार्गानुसार्यनुष्ठानाभावात् , तदभावपि च स्वाभाविकानुकम्पादिगुणवतां मेघकुमारजीवहस्त्यादीनां फलतः सायाधिति विभावनीयम् / युतं चैतत् पश्चस्वनुष्ठानेषु तद्धत्वमृतानुष्ठानयोरिव सकामनिर्जराङ्गत्वव्यवस्थितेः / अत एवानुचितानुष्ठानमकामनिर्जराङ्गमुक्तम्। तथा च धर्मबिन्दुसूत्रवृत्तिवचनम् / " अननुष्ठानमन्यदकामनिर्जराङ्गमुक्तविपर्ययादिति" | अननुष्ठानमनुष्ठानमेव न भवति, 'अन्य' विलक्षणमुचितानुष्ठानाद् / तर्हि कीदृशं तत् ? इत्याह-'अकामनिर्जराङ्गम्' अकायस्य निरभिलाषस्य तथाविधवलीवादेरिव या निर्जरा कर्मक्षपणा तस्या अझं निमित्तम् / ननु मुक्तिफल. योर्निजरयोः कुलः ? इत्याह-'उक्तविपर्ययाद्' उदग्रविवेकाभावेन रत्नत्रयाराधनाभावादिति // उचितामुष्टानं च साध्वादीनां यथाशुद्धचारित्रपालनादीकं तथा मार्गानुसारिणां मिथ्यादृशामपि सामान्यतः सदाचारादिकम् , भूमिकाभेदेनौचित्यव्यवस्थानात् , ततोऽधिकारिभेदेन यद् यदोचितमनुष्ठानं तत्तदा साक्षात्पारम्पर्येण धा निर्वाणफलमिति सकामनिर्ज. राङ्गम् / यच्चानुचितं " तदनुचित प्रतिपत्ती नियमादसदभिनिवेशोऽन्यत्रानाभोगमात्रादिति ॥"-वचनात् अभिनिवेशसहकृतत्वेन विपरीतफलमिति तत्त्वतोऽकामनिर्जराङ्गमिति मन्तव्यम् / इत्थं च " तओ भणियं नाइलेण, जहा मा वच्छ / तुम एतेणं परिओसमुवयासु / जहा अहयं आसबारेण परिमुसिओ अकामगिजराएवि किंवि कम्मरखो हवइ किंपुण जं बालतवेणं / ता एते बालतवस्सिगो दट्टये, जओ णं किंचि उस्सुतुन्मग्गयारित्त 1 ततो भणितं नागिलेण, यथा मा घत्स! त्वमेतेन परितोषमुपयाहि / यथाऽ' हमश्ववारेण परिमुषितोऽकामनिर्जरयाऽपि किंचित्कर्मक्षयो भवति कि पुनर्यदूबालतपसा ? / तस्मादते खालतपस्विनों द्रष्टव्याः। यतः खलु किंचिदुत्सूत्रोन्मार्गचारित्व For Private and Personal Use Only
SR No.020309
Book TitleDharmpariksha
Original Sutra AuthorN/A
AuthorYashovijay
Publisher
Publication Year
Total Pages276
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy