________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 124 उपभुक्तविपाकानां परिशदनमात्मप्रदेशेभ्यः प्रच्यवनं मिर्जरा / अथ तस्या भेदावाह-सा दुविहा पण्णता सकामा अकामा य / सह कामेन 'निर्जरा मे भूयाद्' इत्यभिलाषेण न त्विह परलोकादिकामेन युक्ता सकामा। अनन्तरोक्तकामवर्जिता त्वकामा। चशब्दः समुच्चये। उपायात्वतोऽपि वा फलानाभिव कर्मणां पाकस्य सावानिर्जराया इदं द्वैविध्यमिति भावः / तत्राकामा केषाम् ? इत्याह-" तत्थ अकामा सव्वजीवाणं " निर्जराभिलाषिणां तपस्तप्यमानानां सकामनिजरेति वक्ष्यमाणत्वाद् तव्यतिरिक्तानां सर्वेषां जीवानामकामा, कर्मक्षयलक्षणाभिलाषवर्जितत्वाद् / एतदेव चतुर्गतिगतजन्तुषु व्यक्तीकुर्वन्नाह / तथाहि-" ऍगिदिआई तिरिआ जहासंभवं छेअ-भेअ-सी-उण्ह-वास-जल ग्गिछुहा-पिवासा-कसंकुसाईएहि, नारगा तिविहाए वेअणाए, मणुआ छुहा-पिवासावाहि-दालिद्द-चारगणिरोहणाइणा, देवा पराभिओग-किब्बिसत्ताइणा असायावेगिजं कम्ममणुभविउं पडिसाडिति तेसिमकामणिजरा // ". ___ "तथाहीति पूर्वोक्तस्यैवोपक्षेपे / छेद-भेद-शीतोष्ण-वर्ष-जलाग्निक्षुधापिपासा-कशाङ्कशादय एकेन्द्रियादिषु पञ्चेन्द्रियपर्यन्ततिर्यक्षु योज्या / नास्काणां त्रिविधा वेदना क्षेत्रजाऽन्यान्योदीरित-परमाधार्मिकजनितस्वरूपा / 'वाहित्ति व्याधिः, चारकनिरोधः कारागारग्रहः / शेषं सुबोधम् / सकामनिर्जरामाह-सका मणिजरापुण णिजराभिलासणि अणसण-ऊणोयरिआ-रसञ्चाय-कायकिलेस-पसंलिणआभेअं छविहं बाहिर पायच्छित्त-विणअ-चेयावच्च-संसज्झाय-झाण-विउस्सग्गभेअं छबिहमाभितरं च तवं तवंताणं / निर्जराभिलाषिणामनशनादिभेदं षड्विधं बाह्यं प्रायश्चित्तादिभदं षड्विधमाभ्यन्तरं च तपस्तप्यमानानां भवति सकामा निर्जरेति संटंक इत्यादि / " 1 सा द्विविधा प्राप्ता सकामा अकामा च / 2 तत्राकामा सर्वजोबानाम् / . 3 एकेन्द्रियादयस्तिर्यञ्चो यथासंभवं छेद-भेद-शीतोष्ण-वर्षा-जलाग्नि-क्षुधा पिपासा-कशा-ऽशादिभिः, नारकास्त्रिविधया वेदनया, मनुजाः क्षुधा-पिपासाव्याधि-दारिय-चारकनिरोधनादिना; देवाः पराभियोग-किल्विषत्वादिना अशातावेदनीयं कर्मानुभूय प्रतिशाटयन्ति तेषामकामनिर्जरा। 4 सकामनिर्जरा पुनर्निर्जगभिलाषिणामनशनोदरिका-रसत्याग-कायक्लेश-प्रतिसंलोनताभेदं पड़विधं बाह्यं प्रायश्चित्त-विनय-वैयावृत्य-संस्वाध्याय-ध्यान-न्युत्सर्ग: मेवं षड्विधताभ्यातरं तपस्सप्यमानानाम् // For Private and Personal Use Only