________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 103 / तदुक्तं योगशास्त्रवृत्ती-" सा निर्जरा द्वधा / सह कामेन “निर्जरा मे भूयाद् इत्यभिलाषेण युक्ता सकामा, न विहलोकपरलोकफलादिकामेन युक्ता, तस्य प्रतिपिद्धत्वात् / यदाहु:-"नो इहलोगट्टयाए तव महिडिजा” इत्यादि इत्येका निर्जरा / द्वितीया त्वकामा कामेन पूर्वोक्तेन वर्जितेति / न च वाच्यं “ज्ञेया सकामा यमिनामकामा त्वन्यदेहिनाम् / इत्यनेन योगशास्त्रस्यैव वचनान्तरेण यतीनामेव सकाला निर्जरा सिभ्यति मिथ्यादृशां तु कर्मक्षयाद्यर्थ तपःकष्टं तन्वतामप्यकामैवेति / " ज्ञेया सकामा यभिनास्”-इत्यादिना वचनस्योत्कृष्ठसकामनिर्जराखाभिकथनपरत्वाद् उत्कृष्टा हि सकामनिर्जरा तेषामेव भवदिति / अन्यथा देशविरतसम्यग्वशां चाकामनिर्जरैव प्रासाति, तेषामपि यमिशब्दाव्यपदेश्यत्वेन. विशेषाभावाद / न चैतदिष्टम् , तस्मादेतद्वचनसुत्कृष्टसकामनिर्जराधिकारिकथनपरमिति न दोषः। किंच-ज्ञेया सकामेत्यादिश्लोकव्याख्यानेऽप्यकामनिर्जरास्वामिनोनिरभिलाषे निरभिप्रायं च कष्टं सहमाना एकेन्द्रियादय एवोक्ताः, न तु बालतपस्व्यादय निध्यादृशोऽपि / तथाहि-सकामा निर्जराभिलाषवतां यमिनां यतीनां विज्ञेया / ते हि कर्मक्षयार्थ तपस्तप्यन्ते / अकामा तु कर्मक्षयलक्षणफलनिरपेक्षा निर्जरा अन्यदेहिनां यतिव्यतिरिक्तानामेकेन्द्रियादीनां प्रापिनाम् / तथाहि-एकेन्द्रियाः पृथिव्याइयो बनस्पतिपर्यन्ताः शीतोष्णवर्षजलाग्निशस्त्रायभिघातच्छेदभेदादिनाऽसद्वेद्यं कर्मानुभूय नीरसंतस्वप्रदेशेभ्यः परिशादयन्ति, विकेलन्द्रियाश्च क्षुत्पिपासा शीतोष्णवानादिभिः, पश्चेन्द्रियास्तियश्चश्च च्छेदभेददाहशस्त्रादिभिः, नारकाच त्रिविधया वेदनया, मनुष्याश्च क्षुत्पिपासाव्याधिदारिद्रयादिना, देवाश्च पराभियोगकिल्बिषत्वादिनाऽसद्वेचं कर्मानुभूय स्वरदेशेभ्यः परिशाटयन्तीत्येषामकामनिजरेति / / समयसारसूत्रकृत्योरप्येवमेवोक्तम् / तथाहि-" इदानीं निर्जरा. सत्त्वं निगद्यते-" अणुभूअरसाणं कम्मपुग्गलाणं परिसडणं णिज्जरा।" 1 न इहलोकार्थ तपोऽधितिष्ठेत् / . अनुभूतरसानां कर्मपुदलानां परिशरनं निर्जरा / . For Private and Personal Use Only