________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 122 टयो ग्राह्याः, सम्यगस्तित्ववादिनामेव तेषां समाश्रयणात् " इति / सूत्रकृतवृत्तावप्युक्तम्-" ननु च क्रियावाद्यप्यशीत्युत्तरशतभेदोऽपि तत्र तत्र प्रदेशे कालादीनभ्युपगच्छन्नेव मिथ्यावादित्वेनोपन्यस्तस्तत्कथमिह सम्यग्दृष्टित्वेनोच्यते ? उच्यते-स तत्र 'अस्त्येव जीवः' इत्येवं सावधारणतयाऽभ्युपगमं कुर्वंस्तथा 'काल एवैकः सर्वस्यास्य जगत: कारणं' तथा 'स्वभाव एव नियतिश्च पूर्वकृतमेव पुरुषाकार एव इत्येवमपरनिरपेक्षतयैकान्तेन कालादीनां कारणत्वेनाश्रयणान्मिथ्यात्वम् / ताहि-अस्त्येव जीवः' इत्येवमस्तिना सह जीवस्य सामानाधिकरण्याद् यदस्ति तज्जीव इति प्रासम् , अतो निरवधारणपक्षसमाश्रयणादिह सम्यक्त्वमभिहितम् / तथा कालादीनामपि समुदितानां परस्परसत्यपेक्षाणां कारणत्वेनेहाश्रयणात्सम्यक्त्वमिति / ननु च कथं कालादीनां प्रत्येकं निरपेक्षाणां मिथ्यात्वस्वभावत्वे सति समुदितानां सम्यक्त्वसद्भावः ?, न हि यत्प्रत्येकं नास्ति तत्समुदाये भवितुमर्हति सिकतातैलवत् / नैतदस्ति, प्रत्येकं पद्मरागादिमणियविद्यमानाऽपि रत्नावली समुदाये भवन्ती दृष्टा, न च दृष्टेऽनुपपन्नं नामेति यत्किंचिदेतदित्यादि // " या च क्रियावादिसामान्यस्यान्तःपुद्गलपरावर्ताभ्यन्तरसंसारत्वेन नियमतः शुक्लपाक्षिकत्वानुपपत्तिः सा क्रियारुचिरूपेण शुक्लपक्षण शुक्लपाक्षिकत्वमवलम्ब्य परिहर्तव्या / अत एवाक्रियावादिनो नियमात्कृष्णपाक्षिकत्वमपि संगच्छते, क्रियापक्ष एव शुक्लोऽक्रियापक्षस्तु कृष्ण इति / अन्यथा निरबधारणपक्षाश्रयणे क्रियावादिवदकि यावाद्यपि सम्यग्दृष्टिः स्यात् / अथवोत्कृष्टतः पुद्गलपरावर्तसंसारिजातीयत्वमत्र शुक्लपाक्षिकत्वं तदधिकसंसारिजातीयत्वं च कृष्णपाक्षिकत्वं विवक्षितमित्यदोष इति प्रतिभाति / तत्वं तु बहुश्रुता विदन्ति // यत्तूच्यते-केनचिदकामनिर्जराङ्गत्वान मिथ्यादृशां किमपि कृत्यमनुमोदनीयमिति / तदसत् , मिथ्यादृशामपि प्रकृतिभद्रकत्वादिगुणवतां 'कर्मक्षयो मे भूयाद्' इतीच्छया स्वयोग्यशीलतपः प्रभृतिसदनुष्ठानकारिणां सकामनिर्जराऽनपायात् / सह कामेण मोक्षाभिलाषेण वर्तते या सा सकामा, तद्विपरीता त्वकामेति हि सकामाकामयोर्निर्जरयोलक्षणम् / For Private and Personal Use Only