________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 121 स चे कर्मवैचित्र्यवशादल्पतरभवानामपि प्रदेश्यादिवद् भवतीति / अत एव भगवत्यां "सुकपक्खिया जहा सलेस्स"त्ति सलेश्यातिदेशेन शुक्लपाक्षिकस्याप्यक्रियावादसंभव उपदर्शितः / तथा च सलेश्याधिकारप्रश्ननिर्वचनसूत्रम् ." सलेस्सा णं भंते जीवा किं किरियावादी ? पुच्छा। गोयमा ! किरियावादीवि, जाव वेणइअवादीवि"त्ति / / नत इमामनुपपत्तिं दृष्ट्वा भगवत्यर्थ एव मनो देयम् / भगवत्यां हि सम्यग्दृष्टय एव क्रियावादिनः प्रतिपादिताः, "मिच्छशिट्टी जहा कपहपक्खिया” इत्पतिदेशात् / " कण्हपक्खिआ णं भंते जीवा कि किरियावादी ? पुच्छा / गोयमा यो किरियावादी, अकिरियावादीवि अन्नाणियवादीवि वेणइअवादीवित्ति-वचनास्कृष्णपाक्षिकाणां च क्रियावादित्वप्रतिषेधादिति / युक्तं चैतत् , सूत्रकृताङ्गेमि समवसरणाध्ययननिर्युक्तावित्थं प्रतिपादितत्वात् / तथा त तत्पाठः " सन्मदिट्टी किरियावादी भिच्छा य सेसंगा वादी / जहिऊण मिच्छवायं सेवह वादं इमं सच्चं // " इति चेत् / मैवम् / एकशास्त्रावलम्बनेनापरशास्त्रदूषणस्य महाशातनारूपत्वाद् उभयशास्त्रसमाधानस्यैव न्याय्यत्वात् / तत्र भगवत्या सूत्रकृतनियुक्तौ च क्रियावादिविशेषस्यैव ग्रहणाद् ( अत्र) अक्रियावादिसामान्यस्य ग्रहणान्न ग्रन्थविरोधः / तदुक्तं भगवतीवृतौ-" एते च सर्वे ऽप्यन्यत्र यद्यपि मिथ्यादृष्टय एवोक्तास्तथापीह क्रियावादिनः सम्यग्छ 1 शुक्ल पाक्षिका यथा सलेश्या इति / 2 सलेश्या भगवन् ! जीवाः किं क्रियांवादिनः ? प्रश्नः / गौतम! क्रियावादिनोऽपि यावत् वैनथिकवादिनोऽपीति। 3 कृष्णपाक्षिका भगवत् जीवाः किं क्रियावादिनः ? प्रश्नः / गौतम ! नोक्रियापादिनः, अभियावादिनोऽपि, अशानिकवादिनोऽपि वैनथिकवादिनोऽपीति / सम्यग्दृष्टयः क्रियावादिनी मिथ्या व शेषका वादिनः / বা মিষ্টান্ত স্ব আমি / For Private and Personal Use Only