SearchBrowseAboutContactDonate
Page Preview
Page 131
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 120 सूर्योदये स्वं भ्रान्तं मन्यमानोऽकामनिर्जरायोगादिना कचिन्मनुजभवे प्राप्य कर्मक्षयोपशमवशाजाततत्त्वान्वेषणश्रद्धो मिश्रादिगुणस्थानकयोगादपगत दिगमोहसममिथ्यात्वहेतुकतत्त्वव्यामोहः कथमपि यक्षसमसद्गुरुं प्राप्य तदुपदेशबहुमानादवगतं ज्ञानादिमोक्षमार्ग तदनुगतसम्यगनुष्ठानादिना भजमान उत्कर्षतः पुद्गलपरावर्तमध्ये परेभ्यः पश्वेभ्योऽपि मित्रेभ्यः पश्चादनन्तेन कालेन स्वेष्टपुरसमं मोक्षमचाप्नोतीति। ननु यद्यप्येवं दशाश्रुतस्कन्धचूर्ण्यनुसारेण क्रियावादिनः सम्यग्दष्टि-मिथ्यादृष्टयन्यतरत्वमुत्कर्षतोऽन्तःपुगपरावर्तमानसंसारत्वेन शुक्लपाक्षिकत्वं च नियमतो लभ्यते, अक्रियावादिनश्च नियमान्मिथ्यादृष्टित्वं कृष्णपाक्षिकत्वं च तथापि नाम्र निश्चयः कर्तुं पार्यते, अन्यत्रापार्द्धपुद्गलपरावर्ताधिकसंसारस्यैव कृष्णपाक्षिकत्वप्रतिपादनात् / ततुक्तम् सिमबड्डो पुग्गलपरिअट्टो सेसओ उ संसारो / .. ते सुक्कपक्खिा खलु अहिए पुण कण्हपक्खिया" "येपामपार्द्धपुद्गलपरावर्त एव शेषः संसारस्तत ऊर्ध्व सेत्स्यते ते शुक्लपाक्षिकाः क्षीणप्रायसंसाराः / खलुशद्धो विशेषणार्थः / प्राप्तदर्शना अप्राप्तदर्शना वा सन्तोति विशेषयति / अधिके पुनरपार्द्धपुद्गलपरावर्तात्संसारे कृष्णपाक्षिकाः क्रूरकर्माण इत्यर्थः // " इत्यादिश्रावकप्रज्ञप्तिवृत्तौ योगबिन्दुवृत्तावप्युक्तम् / तत्रापि शुक्लपाक्षिकोऽपार्द्धपुद्गलपरावर्तान्तर्गतसंसारः / यत उक्तं "जेसिमवड्डो पुग्गल.' इत्यादि। ततो हि क्रियावादिनः शुक्लपाक्षिकत्वं भजनीयमेव लभ्यते, अक्रियावादनोऽपि नियमतः कृष्णपाक्षिकत्वमिति विघटते एव; अपार्धपुद्गलपरावर्ताभ्यन्तरीभूतसंसाराणामप्यक्रियावादिनां संभवात् , तस्यापि कृष्णपाक्षिकत्वभजनाया एव संभवात् / नास्तिकत्वपक्षो ह्यक्रियावादः. "आत्थत्ति किरियवाई चयन्ति स्थित्ति अकिरियवाई"त्ति वचनात्। 1 थेमापपार्धः पुद्गलपरावतः शेषस्तु संसारः। ते शुक्लपाक्षिकाः खलु अधिके पुमः कृष्णपाक्षिकाः॥ 2 अस्तीति शिवादिलो पदन्ति, नास्तीति अक्रिशासदिनः / For Private and Personal Use Only
SR No.020309
Book TitleDharmpariksha
Original Sutra AuthorN/A
AuthorYashovijay
Publisher
Publication Year
Total Pages276
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy