________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir तदुले दशाश्रुतस्कन्धचूर्गौ-"जो अकिरियावाई सो भविओ वा, णियमा कण्हपक्खिओ / किरियावादी णियमा भविओ णियमा सक्कपक्खिओ अंतो पुग्गलपरिअट्टस्स णियमा सिज्झिहिति, सम्मदिट्ठी वा मिच्छदिट्ठी वा हुजत्ति // " एतत्समंतिपूर्वमुपदेशरत्नाकरेऽप्पेवमुक्तम्-तथाहि-“केचित्संसारवासिनो जीवा देवादिगतौ च्यवनादिदुःखभग्ना भोक्षसौख्यमनुपम ज्ञात्वा तदर्थजातस्पृहाः कर्मपरिणतिवशादेव मनुष्यगतिं प्रापुः / तत्र चैकः प्रथमः कुगुरूपदिष्टशास्त्रार्थभाविततयाऽभिगृहीतभिथ्यात्वे दिग्मोहसमतत्त्वव्यामोहवान् पूर्वोक्तमिथ्याक्रियासु मनोवाकायधनादिबलवत्तया भृशमुद्युक्तो विष्णुपुराणोक्तशतधनुपादिदृष्टान्तभ्यो वेदपुराणामुक्तिभ्यश्च संजातजिनधर्मद्वेषात्स्वज्ञानक्रियागर्वाच यक्षतुल्यं सम्यग्गुरुं तदुपदेशांश्च दूरतः परिहारादिनाऽवगणय्य सर्वेभ्यः प्रागेवेष्टपुरसमं मोक्षं गन्तुं समुत्थितो ज्ञानक्रियादि गर्वादिनाऽन्यदर्शनिसंसालापजप्रायश्चित्तभिया मार्गमिलितसम्यक्पथिकतुल्यान् जैनमुनिश्राद्धादीन सुमार्गमपृच्छन् यथा यथा प्रबल पादत्वरितगतिसमा अनन्तजीवपिण्डात्मकमूलक-सेवालादिभोजनाग्निहोत्रादिका मिथ्यात्वक्रियाः प्रबलाः कुरुते, तथा तथा तजनितमहारम्भजीवघातादिपापकर्मावेशादश्वग्रीवनृपतिपुरोहितवद् गाढगाढतरगाढतमदुःखमयकुमानुष्यतिर्यग्नरकादिकगतिपतितो दुर्लभबोधितयाऽनन्तचतुरशितिलक्षजीवयोनिबु भ्राम्यन शिवपुराद् भृशं दुरवत्येव जायते पुनरनन्तम कालेन तत्रागामुकत्वात् / किरियावाई णियमा भविओ, णियमा सुक्कपक्खिओ, अंतो पुगलपरिअहस्स णियमा सिज्झिहिति, सम्मदिट्ठी वा मिच्छादिट्ठी वा हुज्जा" ॥-इति दशाश्रुतस्कन्धचूर्युपासकप्रतिमाधिकारादिवचनात् क्रियारुचित्वेनावश्यं शिवगामितया यथाप्रवृत्तकरणादुत्तीर्णोऽपूर्वकरण 1 योऽक्रियावादी स भव्यो वा, नियमात्कृष्णपाक्षिकः। क्रियावादी नियमाद् भव्यो नियमाच्छुक्लपाक्षिकः, अन्तःपुद्गलपरावर्तस्य गियमात्सेत्स्यति, सम्यग्दृष्टिा मिथ्यादृष्टि; भवेदिति // 2 क्रियावादी नियमाद् भव्यः, नियमाच्छुक्लपाक्षिकः, अन्तः पुद्गल परावर्तस्य नियमात्सेत्स्यति, सम्यग्दृष्टिा मिथ्याडष्टियं भवेदिति // For Private and Personal Use Only