________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 114 "ततश्च "मिथ्यादृशां गुणा न ग्राह्याः' इति कदाग्रहः परित्याज्य इत्यभिप्रायेणाहइअ लोइअलोउत्तर सामन्नगुणप्पसंसणे सिद्धे। मिच्छदिट्ठीण गुणे ण पसंसामोत्तिं दुव्वयणं // 36 // 'इअ'त्ति / इत्यमुना प्रकारेण लौकिकलोकोत्तरसामान्यगुणप्रशंसने सिद्धे इष्टसाधनत्वेन व्यवस्थिते 'मिथ्यादृष्टीनां गुणान्न प्रशंसा मः' इति दुर्वचनं गुणमात्सर्यादेव, तथावचनप्रवृत्तेः / न च नैवंभूतं मात्सर्यादेवोच्यते, किन्तु सम्यग्दृष्टिमिथ्यादृष्टिसाधारणगुणप्रशंसया विशेषगुणातिशयभङ्गापत्तिभयादेवेति शङ्कनीयम् / एवं सति विरताविरतसाधारणसम्यक्त्वादिगुणप्रशंसाया अपि परिहारापत्तेः, तथापि विरतविशेषगुणातिशयभङ्गापत्तिभयतावदस्थ्यादिति // 36 // . दुर्वचनत्वं चास्य व्यक्त्या तत्प्रशंसाविधायकसद्वचनबाधात्सिध्यतीति तदुपदर्शयति मग्गाणुसारिकिचं तेसिमणुमोअणिजमुवइटुं। सिवमग्गकारणं तं गम्मं लिंगेहिं धीरेहिं // 37 // मग्गाणुसारित्ति / मार्गानुसारिकृत्यं तेषामपि मिथ्यादृशामप्यनुमोदनीयमुपदिष्टं भगवता। तदुक्तं चतुःशरणप्रकीर्णके "अहवा सव्वं चिय वायरायवयणाणुसारि जं सुकडं / कालत्तएवि तिविहं अणुमोएमो तयं सव्वं // " इति लौकिकलोकोत्तरसामान्यगुणप्रशंसने सिद्धे / मिथ्यादृष्टीनां गुणान् न प्रशंसाम इति दुर्वचनम् // 36 // मार्गानुसारिकृत्यं तेषामनुमोदनीयमुपदिष्टम् / शिवमार्गकारणं तद् गम्यं लिङ्गधीरैः // 37 // अथवा सर्वमेव वीतरागवचनानुसारि यत्सुकृतम् / कालत्रयेऽपि विविधमनुमोदयामस्तत्सर्वम् // For Private and Personal Use Only